पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् । आन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ।। ४१
ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् । कण्ठमस्या नृशंसायाः पीडयाम किमास्यते ।। ४२
निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह । नात्र कश्चन संदेहः खादतेति स वक्ष्यति ॥ ४३
ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् । विशस्येमां ततः सर्वाः समान् कुरुत पिण्डकान्॥ ४४
विभजाम ततः सर्वा विवादो मे न रोचते । पेयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु॥ ४५
ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् । अजामुख्या यदुक्तं हि तदेव मम रोचते ॥ ४६
सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी । मानुषं मांसमास्वाद्य नृत्यामोऽथ निकुम्भिलाम ॥ ४७
एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा । राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति ॥ ४८
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे राक्षसीनिर्भर्त्सनं नाम चतुर्विंशः सर्गः

पञ्चविंशः सर्गः
सीतानिर्वेदः
तथा तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। १
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी । उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। २
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ।। ३
सा राक्षमीमध्यगता सीता सुरसुतोपमा । न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।। ४
वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः । वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।। ५
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् । चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥ ६
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः । चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ॥ ७
सा वेपमाना पतिता प्रवाते कदली यथा । राक्षसीनां भयत्रस्ता विषण्णवदनाभवत् ।। ८
तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा । ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।। ९
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना । आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।। १०
हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च । हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ।। ११
लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः । अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।। १२
यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता । जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।। १३