पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६४ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः। ततो विक्रममासाद्य धैर्यवान् कपिकुञ्जरः॥ ४९
रावणं वा वधिष्यामि दशग्रीवं महाबलम्। काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति॥ ५०
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्। रामायोपहरिष्यामि पशुं पशुपतेरिव॥ ५१
इति चिन्तां समापन्नः सीतामनधिगम्य ताम। ध्यानशोकपरीतात्मा चिन्तयामास वानरः॥ ५२
यावत् सीतां हि पश्यामि रामपत्नीं यशस्विनीम्। तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः॥ ५३
संपातिवचनाच्चापि रामं यद्यानयाम्यहम्। अपश्यन्ति राघवो भार्यां निर्दहेत् सर्ववानरान्॥ ५४
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः। न मत्कृते विनश्येयुः सर्वे ते नरवानराः॥ ५५
अशोकवनिका चेयं दृश्यते या महाद्रुमा। इमामभिगमिष्यामि न हीयं विचिता मया॥ ५६
वसून् रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च। नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः॥ ५७
जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनन्दिनीम्। संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने॥ ५८
स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः। उदतिष्ठन्महातेजा हनूमान् मारुतात्मजः॥ ५९
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः॥ ६०
स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः। दिशः सर्वाः समालोक्य ह्यशोकवनिकां प्रति॥ ६१
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम्। उत्तरं चिन्तयामास वानरो मारुतात्मजः॥ ६२
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला। अशोकवनिकाचिन्त्या सर्वसंस्कारसंस्कृता॥ ६३
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्। भगवानपि सर्वात्मा नातिक्षोमं प्रवाति वै॥ ६४
संक्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च। सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह॥ ६५
ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशन्तु मे। सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्॥ ६६
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च। अश्विनौ च महात्मानौ मरुतः सर्व एव च॥ ६७
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः। दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथि गोचराः॥ ६८
तदुन्नसं पाण्डरदन्तमवर्णं शुचिस्मितं पद्मपलाशलोचनम्।
द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यदर्शनम्॥ ६९