पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशः सर्गः ५६३

सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति। तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम्॥ २५
भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः। विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति॥ २६
भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति। पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः॥ २७
कौसल्या च सुमित्रा च कैकेयी च न संशयः॥ कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः॥ २८
रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम्। दुर्मना व्यथिता दीना निरानन्दा तपस्विनी॥ २९
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्। वालिजेन तु दुःखेन पीडिता शोककर्शिता॥ ३०
पञ्चत्वं च गते राज्ञि तारापि न भविष्यति। मातृपित्रोर्विनाशेन सुग्रीवव्यसनेन च॥ ३१
कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम्। भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः॥ ३२
शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च। सान्त्वेनानुप्रदानेन माने च यशस्विना॥ ३३
लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः। न वनेषु न शैलेषु न निरोधेषु वा पुनः॥ ३४
क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः। सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः॥ ३५
शैलेभ्यः पतिष्यन्ति समेत्य विषमेषु च। विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा॥ ३६
उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः। घोरमारोदनं मन्ये गते मयि भविष्यति॥ ३७
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्। सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः॥ ३८
न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना। मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ॥ ३९
आज्ञया तौ धरिष्येते वानराश्च मनस्विनः। हस्तादानो मुखादानो नियतो वृक्षमूलिकः॥ ४०
वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम्। सागरानूपजे देशे बहुमूलफलोदके॥ ४१
चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्। उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः॥ ४२
शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च। इदं महर्षिर्भिर्दृष्टं निर्याणमिति मे मतिः॥ ४३
सम्यगापः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम्। सुजातमूला सुभगा कीर्तिमाला यशस्विनी॥ ४४
प्रभग्ना चिररात्राय मम सीतामपश्यतः। तापसो वा भविष्यामि नियतो वृक्षमूलिकः॥ ४५
नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्। यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम्॥ ४६
अङ्गदः सह तैः सर्वैर्वानरैर्न भविष्यति। विनाशे बहवो दोषा जीवन् भद्राणि पश्यति॥ ४७
तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति संगमः॥ एवं बहुविधं दुःखं मनसा धारयन् मुहुः॥ ४८