पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६२ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे
त्रयोदशः सर्गः
हनूमन्निर्वेदः
विमानात्तु सुसंक्रम्य प्राकारं हरिपुंगवः। हनुमान् वेगवानासीद्यथा विद्युद्घनान्तरे॥ १
संपरिक्रम्य हनुमान् रावणस्य निवेशनम्। अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः॥ २
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम्। न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्॥ ३
पल्वलानि तटाकानि सरांसि सरितस्तथा। नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः॥ ४
लोलिता वसुधा सर्वा न तु पश्यामि जानकीम्। इह संपातिना सीता रावणस्य निवेशने॥ ५
आख्याता गृध्रराजेन न च पश्यामि तामहम्। किं नु सीताथ वैदेही मैथिली जनकात्मजा॥ ६
उपतिष्ठेत विवशा रावणेन हृता बलात्। क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः॥ ७
बिभ्यतो रामबाणानामन्तरा पतिता भवेत्। अथवा ह्रियमाणायाः पथि सिद्धनिषेविते॥ ८
मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्। रावणस्योरुवेगेन भुजाभ्यां पीडितेन च॥ ९
तस्या मन्ये विशालक्ष्या त्यक्तं जीवितमार्यया। उपर्युपरि वा नूनं सागरं क्रमतस्तदा॥ १०
विवेष्टमाना पतिता समुद्रे जनकात्मजा। आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः॥ ११
अबन्धुर्भक्षिता सीता रावणेन तपस्विनी। अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा॥ १२
अदुष्ट दुष्टभावाभिर्भक्षिता सा भविष्यति। संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणा॥ १३
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता। हा राम लक्ष्मणेत्येवं हायोध्ये चेति मैथिली॥ १४
विलप्य बहु वैदेही न्यस्तदेहा भविष्यति। अथवा निहिता मन्ये रावणस्य निवेशने॥ १५
नूनं लालप्यते सीता पञ्जरस्थेव शारिका। जनकस्य सुता सीता रामपत्नी सुमध्यमा॥ १६
कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्। विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा॥ १७
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्। निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने॥ १८
कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे। अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम्॥ १९
भवेदिति मतं भूयो हनूमान् प्रविचारयन्। यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः॥ २०
गमिष्यामि ततः को मे पुरुषार्थो भविष्यति। ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति॥ २१
प्रवेशश्चैव लङ्काया राक्षसान्तं च दर्शनम्। किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः॥ २२
किष्किन्धां समनुप्राप्तां तौ वा दशरथात्मजौ। गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम्॥ २३
न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम्। परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम्॥ २४