पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः ५६५
क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालंकृतवेषधारिणा।
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत्॥ ७०
इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे हनूमन्निर्वेदो नाम त्रयोदशः सर्गः

चतुर्दशः सर्गः
अशोकवनिकाविचयः
स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्। अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः॥ १
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः। पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान्॥ २
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्। उद्दालकान्नागवृक्षांश्चूतान् कपिमुखानपि॥ ३
अथाम्रवनसंछन्नां लताशतसमावृताम्। ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्॥ ४
स प्रविश्य विचित्रां तां विहगैरभिनादिताम्। राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम्॥ ५
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। उदितादित्यसंकाशां ददर्श हनुमान् कपिः॥ ६
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः। कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिवेषिताम्॥ ७
प्रहृष्टमनुजे काले मृगपक्षिसमाकुले। मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम्॥ ८
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्। सुखप्रसुप्तान् विहगान् बोधयामास वानरः॥ ९
उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः॥ १०
पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः। अशोकवनिकामध्ये यथा पुष्पमयो गिरिः॥ ११
दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम्। दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे॥ १२
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः। रराज वसुधा तत्र प्रमदेव विभूषिता॥ १३
तरस्विना ते तरवस्तरसाभिप्रकम्पिताः। कुसुमानि विचित्राणि मुमुचुः कपिना तदा॥ १४
निर्धूतपत्रशिखराः शीर्णपुष्पफला द्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः॥ १५
हनूमता वेगवता कम्पितास्ते नगोत्तमाः। पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः॥ १६
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः। बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः॥ १७
निर्धूतकेशी युवतिर्यथा मृदितवर्णका। निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता॥ १८
तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता। बभूवाशोकवनिका प्रभग्नवरपादपा॥ १९
महालतानां दामानि व्यधमत्तरसा कपिः। यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः॥ २०
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः। तथा काञ्चनभूमीश्च ददर्श विचरन् कपिः॥ २१