पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२२

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


नैरृतो रावणो नाम तस्य भार्यां हरिष्यति । राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ।।६
सा च कामैः प्रलोभ्यन्ती भक्ष्योर्भोज्यैश्च मैथिली । न भोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी॥७
परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः । यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥८
तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति । अग्रम्द्धृत्य रामाय भूतले निर्वपिष्यति ।।९
यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः । देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति ॥१०
एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः । आख्येया राममहिषी त्वया तेभ्यो विहङ्गम ।।११
सर्वथा हि न गन्तव्यमीदृशः क गमिष्यसि । देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ।। १२
यदा प्रवृत्तिं तां सर्वामाख्यास्यसि विहङ्गम । तदैव पक्षौ वर्णश्च तव सर्वं भविष्यति । १३
नोत्सहेयमहं कर्तुमचैव त्वां सपक्षकम् । इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ।। १४
त्वयापि खलु तत् कार्यं तयोश्च नृपपुत्रयोः । ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ १५
इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ । नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ।। १६

महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

किष्किन्धाकाण्डे निशाकरभविष्याख्यानं नाम द्विषष्टितमः सर्गः

त्रिषष्टितमः सर्गः

संपातिपक्षप्ररोहः

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः । मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम् ॥१
कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः । अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥२
अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् । देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः ।।३
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे । मां निर्दहति संतापो विताकैर्बहुभिर्वृतम् ।।४
उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये । बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु ॥५
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः । बुद्ध्यता च मया वीर्यं रावणस्य दुरात्मनः।।६
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् । तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ ॥७
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् । तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैः सह ।।८
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् । स दृष्टा स्वां तनुं पौरुद्गतैररुणच्छदैः ।।९
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ।ऋषेर्निशाकरस्यैव प्रभावामितात्मनः ॥१०