पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःषष्टितमः सर्गः

५२३


आदित्यरश्मिनिर्दग्धौ पक्षी मे पुनरुत्थितौ । यौवने वर्तमानस्य ममासीद्यः पराक्रमः ।। ११
तमेवाद्यानुगच्छामि बलं पौरुषमेव च । सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ ।। १२
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः । इत्युक्त्वा स हरीन् सर्वान् संपातिः पतगोत्तमः ॥ १३
उत्पपात गिरेः शृङ्गाज्जिज्ञासु खगमां गतिम् । तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः ।।१४
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ॥

अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः ।
अभिजिदभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ॥१५

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायाम् संहितायाम्

किष्किन्धाकाण्डे संपातिपक्षप्ररोहो नाम त्रिषष्टितमः सर्ग:

चतुःषष्टितमः सर्गः

समुद्रलङ्घनमन्त्रणम्

आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः । संगम्य प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः॥१
संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् । हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः॥२
अभिक्रम्य तु तं देशं ददृशुर्भिमविक्रमाः । कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम्।।३
दक्षिणस्य समुद्रस्य समास्यादोत्तरां दिशम् । संनिवेशं नतश्चक्रुः सहिता वानरोनमाः ॥४
सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले । व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम् ॥५
प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः । क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम् ।। ६
संकुलं दानवेन्द्रैश्च पातालतलवासिभिः । रोमहर्षकरं दृष्टा विषेदुः कपिकुञ्जराः ।।७
आकाशमिव दुष्परं सागरं प्रेक्ष्य वानराः । विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ॥८
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्। आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ॥९
तान विषादेन महता विषण्णान् वानरर्षभान् । उवाच मतिमान् काले वालिसूनुर्महाबलः ॥ १०
न विषादे मनः कार्यं विषादो दोषवत्तमः । विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ।। ११
यो विपादं प्रसहते विक्रमे पर्युपस्थिते । तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥१२
इति ब्र्वति तस्मिंस्तु वालिपुत्रे महामतौ । आदित्योऽस्ततं गतस्तत्र रजनी चाभ्यवर्तत ।। १३
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह । हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ।। १४