पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिचत्वारिंशः सर्गः ४९९ दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः । कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥ ५६ अतोऽन्यदपि यत्किंचिन् कार्यस्यास्य हितं भवेत् । संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥ ५७ ततः सुषेणप्रमुखाः प्लवङ्गमाः सुग्रीववाक्यं निपुणं निशम्य । आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम्॥५८ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे प्रतीचीप्रेषणं नाम द्विचत्वारिंशः सर्गः त्रिचत्वारिंशः सर्गः उदीचीप्रेषणम् ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् । वीरं शतवलिं नाम वानरं वानरर्षभः ॥१ उवाच राजा धर्मज्ञः सर्ववानरसत्तमम् । वाक्यमात्महितं चैव रामस्य च हितं तथा ॥२ वृतः शतसहस्रेण त्वद्विधानां वनौकसाम । वैवस्वतसुतैः सार्धं प्रतिष्टस्व स्वमन्त्रिभिः ॥३ दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् । सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥४ अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये । ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः॥ ५ कृतं हि प्रियमस्माकं राघवेण महात्मना । तस्य चेत् प्रतीकारोऽस्ति सफलं जीवितं भवेत् ॥ ६ अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् । तस्य स्वात् सफलं जन्म किं पुनः पूर्वकारिणः॥७ एतां बुद्धिं समास्थाय दृश्यते जानकी यथा । तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥८ अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । अस्मासु चागतप्रीती रामः परपुरंजयः ॥९ इमानि वनदुर्गाणि नद्यः शैलान्तराणि च । भवन्तः परिमार्गन्तु बुद्धिविक्रमसंपदा ॥१० तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च । प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ ११ काम्बोजान् यवनांश्चैव शकानारट्टकानपि । बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥ १२ चीनान् परमचीनांश्च नीहारांश्च पुनः पुनः । अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ ॥ १३ लोध्रपद्मकषण्डेषु देवदारुवनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥१४ ततः सोमाश्रमं गत्वा देनगन्धर्वसेवितम् । कालं नाम महासार्नं पर्वतं तं गमिष्यथ ॥ १५ महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च । विचिनुध्वं महाभागां रामपत्नीमनिन्दिताम्॥१६ तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् । ततः सुदर्शनं नाम गन्तुमर्हथ पर्वतम् ॥१७ ततो देवसखो नाम पर्वतः पतगालयः । नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥१८