पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमदाल्मीकिरामायणे किष्किन्धाकाण्डे ५०० तस्य काननषण्डेषु निर्झरेपु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥१९ तमतिक्रम्य चाकाशं सर्वतः शतयोमनम् । अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥२० तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् । कैलासं पाण्डरं शैलं प्राप्य हृष्टा भविष्यथ ॥२१ तत्र पाण्डरमेघाभं जाम्बूनदपरिष्कृतम् । कुबेरभवनं रम्यं निर्मित विश्वकर्मणा ॥२२ विशाला नलिनी यत्र प्रभूतकमलोत्पला । हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥ २३ तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः । धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ २४ तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २५ क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम् ॥ २६ वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः । देवैरप्यर्चिताः सम्यग्दिव्यरूपा महर्षयः ॥२७ क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः॥ २८ क्रौश्वस्य शिखरं चापि निरीक्ष्य च ततस्ततः । अवृक्षं कामशैलं च मानसं विहगालयम् ॥ २९ न गतिस्तत्र भूतानां देवदानवरक्षसाम् । स च सर्वैविचेतव्यः ससानुप्रस्थभूधरः ॥ ३० क्रौञ्च गिरिमतिक्रम्य मैनाको नाम पर्वतः । मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ ३१ मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः । स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥३२ तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् । सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ ३३ वन्द्यास्ते तु तपःसिद्धास्तपसा वीतकल्मषाः । प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ ३४ हेमपुष्करसंछन्नं तस्मिन् वैखानसं सरः । तरुणादित्यसंकाशैर्हसैर्विचरितं शुभैः ॥३५ औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः । गजः पर्येति तं देशं सदा सह करेणुभिः ॥३६ तत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् । अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥३७ गस्तिभिरिवार्कस्य स तु देशः प्रकाशते । विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः ॥३८ तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा । उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥३९ ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च । उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥४० सतः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः ॥ ४१ रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥४२ महाईमणिपत्रैश्च काञ्चनप्रभकेसरैः । नीलोत्सलवनैश्चित्रैः स देशः सर्वतो वृतः॥ ४३ निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः॥४४ सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । जातरूपमयैश्चापि हुताशनसमप्रभैः ॥४५ नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः। दिव्यगन्धरसस्पर्शा सर्वकामान् स्नवन्ति ॥ ४६