पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे ४९८ योजनानि चतुःषष्टिवराहो नाम पर्वतः । सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ॥ ३० तत्र प्राग्ज्योतिष नाम जातरूपमयं पुरम् । यस्मिन् वसति दुष्टात्मा नरको नाम दानवः ॥ ३१ तत्र सानुषु चित्रेषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ३२ तमतिक्रम्य शैलेन्द्र काञ्चनान्तरनिर्दरः । पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः ॥ ३३ तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः । अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥३४ यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः । अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ॥ ३५ तमतिक्रम्य शैलेन्द्र महेन्द्रपरिपालितम् । षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥ ३६ तरुणादित्यवर्णानि भ्राजमानानि सर्वतः । जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः ॥ ३७ तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः । आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥३८ तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः । मत्प्रसादाद्भविष्यन्ति दिवा रात्रौ च काञ्चनाः ॥ ३९ त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः । ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः॥ ४० विश्वे देवाश्च मरुतो वसवश्व दिवौकसः । आगम्य पश्चिमां सन्ध्यां मेरुमुत्तरपर्वतम् ॥ ४१ आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः । अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥४२ योजनानां सहस्राणि दश तानि दिवाकरः । मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ ४३ शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् । प्रासादगणसंबाधं विहितं विश्वकर्मणा ॥४४ शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः । निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥४५ अन्तरा मेरुमस्तं च तालो दशशिरा महान् । जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः ॥ ४६ तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४७ यत्र तिष्ठति धर्त्मामा तपसा स्वेन भावितः । मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ॥४८ प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः। प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥ ४९ एतावज्जीवलोकस्य भास्करो रजनीक्षये । कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥५० एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः । अभास्करममर्यादं न जानीमस्ततः परम् ॥५१ अधिगम्य तु वैदेहीं निलयं रावणस्य च । अस्तं पर्वतमासाद्य पूर्ण मासे निवर्तत ॥५२ ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥ ५३ श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः । गुरुरेष महाबाहुः श्वशुरो मे महाबलः ॥५४ भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु । प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ॥ ५५