पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ श्रीमद्वाल्मीकिरामायणे किष्किन्धाका

वर्षोदकाप्यायितशाबलानि प्रवृत्तनृत्तोत्सवबहिणानि ।
वनानि निर्वृष्टवलाहकानि पश्यापराहेष्वधिकं विभान्ति ।।
समुद्वहन्तः सलिलातिभार बलाकिनो वारिधरा नदन्तः ।
महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति ।।
मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपङ्क्तिः ।
वातावधूता वरपौण्डरीकी लम्बेव माला रचिताम्बरस्य ।
बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन ।
गात्रानुवृत्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन ।।
निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति ।
हृष्टा बलाका धनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति ।
जाता बनान्ताः शिखिसंप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः।
जाता वृपा गोपु समानकामा जाता मही सस्यवनाभिरामा ।
वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति ।
नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गाः ।।
प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु ।
प्रपातशब्दाफुलिता गजेन्द्राः सार्ध मयूरेः समदा नदन्ति ।।
धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः।
क्षणार्जित पुष्परसावगाढ शनैर्मदं षट्चरणास्त्यजन्ति ।।
अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्तरसैः समृद्धैः ।।
जम्बू द्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदीधैः ॥
तडित्पताकामिरलंकृतानामुदीर्णगम्भीरमहारवाणाम् ।
विभान्ति रूपाणि वलाहकानां रणोधतानामिव वारणानाम ।
मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य ।
युद्धाभिकामः प्रतिनागशी मत्तो गजेन्द्रः प्रतिसंनिवृत्तः ।।
कचित् प्रगीता इव षट्पदीधैः कचित् प्रनृत्ता इव नीलकण्ठैः ।
कचित् प्रमत्ता इव वारणेन्द्रविभान्त्यनेकायिणो बनान्ताः ॥