पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टाविंशः सर्गः

कदम्बसर्जार्जुनकन्दलाच्या वनान्तभूमिर्नववारिपूर्णा ।
मयूरमत्ताभिरुतप्रनृत्तैरापानभूमिप्रतिमा विभाति ॥
मुक्तासकाशं सलिलं पतवै सुनिर्मलं पत्रपुटेषु लग्नम् ।
हष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति ।।
षट्पादतन्त्रीमधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम् ।
आविष्कृत मेघमृदङ्गनादैर्वनेषु संगीतमिव प्रवृत्तम ।।
कचित् प्रनृत्तैः कचिदुन्नदद्भिः कचिव वृक्षापनिषण्णकायैः' ।
ध्यालम्बबभिरणैर्मयूरैर्वनेषु संगीतमिव प्रवृत्तम ॥
स्वनैर्घनानां लषगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम् ।
अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ।
नधः समुद्वाहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा ।
हना नवप्राभूतपूर्णभोगा द्रुतं स्वभारमुपोपयान्ति ।।
नीलेषु नीलाः प्रविभान्ति सक्ता मेघेषु मेघा नववारिपूर्णाः ।
दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः ॥
प्रष्टसंनादितबहिणानि सशक्रगोपाफुलशाहलानि ।
चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि ॥
नवाम्बुधाराहनकेसराणि द्रुतं परित्यज्य सरोमहाणि ।
कदम्बपुष्पाणि सकेसराणि वनानि हृष्टा भ्रमराः पतन्ति ।।
मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः ।
रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः॥
मेघाः समुद्धृतसमुद्रनादा महाजलौधैर्गगनावलम्याः ।
नदीस्तटाकानि सरांसि वापीमही च कृतस्नामपवाहयन्ति ।।
वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णघोपाः ।
प्रनष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलैविप्रतिपन्नमार्गाः ।।
नरैनरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीनः ।
घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ।।