पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टाविंशः सर्गः

नवमासधृतं गर्भ भास्करस्य गभस्तिभिः । पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥
शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः । कुटजार्जुनमालाभिरलंक दिवाकरः ।।
सन्ध्यारागोत्थितैस्तामैरन्तेष्वधिकपाण्डरैः । स्निग्धैरभ्रपटच्छंदैर्बद्धत्रणमियाम्बरम् ।।
मन्दमारतनिश्वास सन्ध्याचन्दनरचितम् । आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥ ६
एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता । सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति ॥
मेघोदरविनिर्मुक्ताः कहारमुखशीतलाः । शक्यमअलिभिः पातुं वाताः केतकगन्धिनः ।
एष फुलार्जुनः शैलः केतकैरधिवासितः । सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते ।।
मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः । मारुतापूरितगुहाः प्राधीता इव पर्वताः ॥ १०
कशाभिरिव हैमोभिर्विद्युद्भिरभिताडितम् । अन्तःस्तनितनिर्घोष सवेदनमिवाम्बरम् ।।
नीलमेघानिता विद्युत् स्फुरन्ती प्रतिभाति मे । स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ।।
इमास्ता मन्मथवतां हिताः प्रतिहता दिशः । अनुलिपा इव घनैनष्टप्रहनिशाकराः ।। १३
क्वचिद्वाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान । कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु ।। १४
मम शोकाभिभूतस्य कामसंदीपनान् स्थितान् ।।
रजः प्रशान्तं सहिमोऽद्य वायुर्निदाघदोषप्रसराः प्रशान्ताः ।
स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ।।
१५
संस्थिता भानसवासलुन्धाः प्रियान्विताः संप्रति चक्रवाकाः।
अभीक्ष्णवर्षोदकविक्षतेपु यानानि मार्गेषु न संपतन्ति ।
कचित् प्रकाशं कचिदप्रकाशं नमः प्रकीर्णाम्बुधरं विभाति ।
क्वचित् कचित् पर्वतसंनिरुद्धं रूपं यथा शान्तमहार्णवस्य ।।
च्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम् ।
मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति ।
१८
रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलं प्रकामम् ।
अनेकवर्ण पवनावधूतं भूमौ पतत्यानफलं विपकम् ।।
१९
विद्युत्पताका सबलाकमालाः शैलेन्द्रकूटाकृतिसंनिकाशाः ।
गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः ।।
२०