पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे ४०

आविवेश न तं निद्रा निशासु शयनं गतम् । तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् ।।
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् । तुल्यदुःखोऽब्रवीद्धाता लक्ष्मणोऽनुनयन् वचः।। ३३
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि । शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते ॥ ३४
भवान क्रियापरो लोके भवान् देवपरायणः । आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ ३५
न व्यवसितः शत्रु राक्षस तं विशेषतः । समर्थस्त्वं रणे हन्तुं विक्रमैर्जियकारिणम् ।। ३६
समुन्मूलय शोकं त्वं व्यवसायं स्थिरं फुरु । ततः सपरिवारं तं निर्मूलं कुरु राक्षसम् ।।
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् । परिवर्तयितुं शक्तः किं पुनस्तं हि रावणम् ।।
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः । ततः सराष्ट्र सगणं रावणं त्वं वधिष्यसि ।। ३९
अहं तु खलु ते वीयं प्रसुप्त प्रतिबोधये । 'दीसैराहुतिभिः काले भरमच्छन्नमिवानलम् ॥
लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हिंत शुभम् । राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥ ४१
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च । सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥ ४२
एष शोकः परित्यक्तः सर्वकार्यावसादकः । विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ।। ४३
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव । मुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ ४४
उपकारेण वीरस्तु प्रतिकारेण युज्यते । अकृतज्ञोऽप्रतिकृतो हन्ति सत्ववतां मनः ।।
अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ।
उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम् ।।
५६
यथोक्तमेतत्तव सर्यमीप्सितं नरेन्द्र कर्ता न चिराद्धरीश्वरः ।
शरप्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः ।।
नियम्य को प्रतिपाल्यतां शरत् क्षमस्व मासांश्चतुरो मया सह ।
वसाचलेऽरिमम् मृगराजसेविते संवर्धयशत्रुवधे समुद्यमम् ।।

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसइसिकायां संहितायाम् किष्किन्धाकाण्ड माल्यवनिवासी नाम सप्तविंशः सर्गः अष्टाविंशः सर्गः प्रावृडुजम्भणम्

स वथा वालिन हत्वा सुग्रीवमभिषिच्य च । वसन माल्यवसः पृष्ठे रामो लक्ष्मणमत्रवीत् ।।
अयं स कालः संप्राप्तः समयोऽध जलागमः । संपश्य त्वं नमो मेषैः संवृतं गिरिसंनिभैः ।।