पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशः सर्गः ४५९

इत्येवमासस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य'।
संजातबाष्पः परवीरहन्ता रामो मुहूर्त विमना बभूव ॥
तस्मिन् क्षणेऽभीष्णमवेक्ष्यमाणः क्षितिक्षमावान भुवनस्य गोप्ता ।
रामो रुदन्ती व्यसने निमनां समुत्सुकः सोऽथ ददर्श ताराम् ।
तां चारुनेत्रां कपिसिंहनाथ पति समाश्लिष्य तदा शयानाम् ।
उत्थापयामासुरवीनसत्त्वां मन्त्रिप्रधानाः कपिवीरपत्नीम् ।।
सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना ।
ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥
सुसंधृतं पार्थिवलक्षणैश्च ते चारनेत्रं मृगशाबनेत्रा ।
अदृष्टपूर्ष पुरुषप्रधानमयं स काकुत्स्थ इति प्रजशे ।।
तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या ।
िितपूर्ण व्यसनाभिपना जगाम तारा परिविह्वलन्ती ।।
सा से समासाद्य विशुद्धसत्त्वा शोकेन संभ्रान्तशरीरभावा ।
मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ।।
त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च ।
अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः॥
त्वमात्तवाणासनबाणपाणिर्महाबलः संहननोपपन्नः ।
मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ॥
येनैकबाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन ।
हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥
स्वर्गेऽपि पद्मामलपत्रनेत्रः समेत्य संप्रेक्ष्य च मामपश्यन् ।
न मेष उचावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत् ।।
स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली ।
रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम् ।।
त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः।
तत्त्वं प्रजानजाहि मां न वाली दुःखं ममादर्शनजं भजेत ॥