पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

दुमशाखावभन्नोऽहं मुहूर्त परिनिष्टनन् । सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥
भ्रातृत्वमार्यभाषश्च धर्मश्चानेन रक्षितः । मया कोधश्च कामश्च कपित्वं च प्रदर्शितम् ।।
अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम् ।
प्राप्तोऽस्मि पाप्मानमिमं वयस्य भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः॥
पाप्मानमिन्द्रस्य मही जलं च वृक्षाच कामं जगृहुः लियश्च ।
को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छन् ।
नाहामि संमानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् ।
अधर्मयुक्त कुलनाशयुक्तमेवंविध राघव कर्म कृत्वा ।
पापस्य कर्तास्मि विगहिसस्य क्षुद्रस्य लोकापकृतस्य चैव ।
शोको महान् मामभिवर्ततेऽयं वृष्टेर्यथा निग्नमिवाम्बुवेगः ॥
सोदर्यघातापरगाववालः संतापहस्ताक्षिशिरोविषाणः ।
एनोमयो माममिहन्ति हस्ती हसो नदीकूलमिव प्रवृद्धः ॥
हो यतेदं नृवराविषयं निवर्तते मे हृदि साधु वृत्तम् ।
विवर्णमनौ परितप्यमानं किट्ट यथा राघव जातरूपम् ।।
महाबलानां हरियूथपानामिदं कुलं राधव मानिमित्तम् ।
अस्याङ्गदस्यापि च शोकतापादस्थितप्राणमितीव मन्ये ॥
सुतः सुलभ्यः सुजनः सुवश्यः कुतः सुपुत्रः सदृशोऽङ्गदेन ।
न चापि विद्येत स वीर देशो यस्मिन् भवेत् सोदरसंनिकर्षः ॥
यद्यङ्गदो वीरवराच जीवेज्जीवेष माता परिपालनार्थम् ।
विना तु पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे ॥
सोऽहं प्रवेक्ष्याम्यतिदीप्तममिं भ्रात्रा च पुत्रेण च सल्यमिच्छन् ।
इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे तव वर्तमानाः ।।
कृत्स्नं तु ते सेस्पति कार्यमेतन्मय्यप्रतीते मनुजेन्द्रपुत्र ।
कुलस्य हन्तारमजीवनाई रामानुजानीहि कृतागसं माम् ॥