पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० श्रीमदास्मीकिरामायणे किष्किन्धाकाण्डे

यचापि मन्येत भवान् महात्मा स्त्रीघातदोषो न भवेतु माम् ।
आत्मेयमस्येति च मां जहि त्वं न श्रीवधः स्यान्मनुजेन्द्रपुत्र ।।
शास्त्रप्रयोगाद्विविधाच वेदादात्मा झनन्यः पुरुषस्य दाराः।
दारप्रदानान हि दानमन्यत् प्रदृश्यते' ज्ञानवतां हि लोके ॥
त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर ।
अनेन दानेन न लप्स्यसे त्वमधर्मयोग मम वीर घावात् ।।
आमिनाथामपनीयमानामेवंविधामर्हसि मां निहन्तुम् ।
अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता ॥
विना वराहोत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ।
इत्येवमुक्तस्तु विभुमहात्मा तारां समाश्वास्य हितं बभाषे ॥
मा वीरभाये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा ।
तं चैव सर्व सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा ॥
त्रयो हि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य ।
प्रीति परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् ॥
धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति ।
आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परंतपेन ॥
सा वीरपत्नी ध्वनता मुखेन सुवेषापा विरराम तारा ॥

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकाया संहितायाम् किष्किन्धाकाण्डे सुग्रीवताराश्वासनं नाम चतुर्दिशः सर्गः पञ्चविंशः सर्गः घालिसंस्कारः

सुग्रीवं चैव तारां च साङ्गदा सहलक्ष्मणः । समानशोकः काकुस्थः सान्त्वयमिदमब्रवीत् ।।
न शोकपरितापेन श्रेयसा युज्यते मृतः । यदवानन्तरं कार्य तत्समाधातुमर्हथ ।।
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् । न कालादुत्तरं किंचित् कर्म शक्यमुपासितुम् ।।
नियतिः कारणं लोके नियतिः कर्मसाथनम् । नियतिः सर्वभूतानां नियोगेयिह कारणम् ।।