पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः सर्गः ११९

वारयज्यनिमित्तं च निःश्रेयसि रतः स मे । प्रतिज्ञा च मया दत्ता तदा पावकसंनिधौ ।
प्रतिज्ञाय कथं शक्यं मद्विधेनानवेक्षितुम् । तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः ।।
शासनं तव यमुक्तं तद्भवाननुमन्यताम् । सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः॥ २९
वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यतः । शक्यं त्वयापि तत् कार्य धर्ममेवानुवर्तता। ३०
श्रूयते मनुना गीतौ श्लोको चारित्रवत्सलौ । गृहीतौ धर्मकुशलैस्तत्तथा चरितं मया ॥
राजमिधृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३२
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । राजा त्वशासन पापस्य तदवाप्नोति किल्बिषम् ।। ३३
आर्येण मम मान्धात्रा व्यसनं घोरमीसितम् । श्रमणेन कृते पापे यथा पापं त्वया कृतम् ॥ ३४
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपः। प्रायश्चितं च कुर्वन्ति तेन तच्छाम्यते रजः॥
तदलं परितापेन धर्मतः परिकल्पितः । वधो वानरशार्दूल न वयं ववशे स्थिताः ।।
शृणु चाप्यपरं भूयः कारणं हरिपुंगव । यच्छ्रुत्वा हेतुमद्वीर न मन्यु कर्तुमर्हसि ।।
न मे तत्र मनस्तापो न मन्युईरियूथप । वागुराभिश्च पाशैश्च कूटश्च विविधैर्नराः ।।
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान् । प्रधावितान् वा वित्रस्तान विस्रब्धांश्चापि निष्टितान्॥
प्रमत्तानप्रमत्तान् वा नरा मांसार्थिनो भृशम । विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते।। ४०
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः । तस्मात्त्वं निहतो युद्धे मया बाणेन वानर ।। ४१
अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि । दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च॥४२
राजानो वानरश्रेष्ठ प्रदातारो न संशयः । तान्न हिस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्॥ ४३
देवा मनुष्यरूपेण चरन्त्येते महीतले । त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः॥ ४४
प्रदूषयसि मां धर्म पितृपैतामहे स्थितम् । एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ॥
न दोष राघवे द्ध्यौ धर्मे तनिश्चयः । प्रत्युवाच ततो रामं प्राञ्जलिवानरेश्वरः।
४६
यत्वमात्थ नरश्रेष्ट तदेवं नात्र संशयः । प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयाम ॥
ययुक्तं मया पूर्व प्रमादादुक्तमप्रियम । तत्रापि खलु मे दोषं कर्तुं नाहसि राधव ।।
त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः । कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया ।। ४९
मामप्यगतधर्माण व्यतिक्रान्तपुरस्कृतम् । धर्मसंहितया वाचा धर्मज्ञ परिपालय ॥
न त्वात्मानमहं शोचे न तारां न च बान्धवान् । यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ।। ५१