पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० श्रीमहाल्मीकिरामायणे किष्किन्धाकाण्डे

स ममावर्शनादीनो बाल्यात् प्रभृति लालितः । तटाक इव पीताम्बुरुपशोष गमिष्यति । ५२
बालन्धाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः । तारेयो राम भवता रक्षणीयो महाबलः ॥
सुमीचे चारदे पैव विधत्व मतिमुत्तमाम् । त्वं हि शास्ता च गोमा च कार्याकार्यविधौ स्थितः।।
या ते नरपते वृत्तिमरते लक्ष्मणे च या। सुप्रीवे चाङ्गादे राजस्तां त्वमाधातुमर्हसि ॥
मदोषकृतदोषां तां यथा तारां तपरिवनीम् । सुप्रीवो नावमन्येत तथावस्थातुमर्हसि ॥
त्वया हनुगृहीतेन राज्यं शक्यमुपासितुम् । त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ।।
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् । त्वतोऽहं वधमाकारक्षन् वार्यमाणोऽपि वारया ॥
सुप्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः । इत्युक्त्वा संनतो रामं विरराम हरीश्वरः ।। ५९
स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् । सामसंपन्नया वाचा धर्मवत्त्वार्थयुकया ।
न संतापस्त्वया कार्य एतदर्थ प्लवङ्गम । न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम ।।
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः । दण्ड्ये यः पातयेद्दण्डं दण्डयो यश्चापि दण्ड्यते ॥६२
कार्यकारणसिद्धार्थावुभौ तौ नायसीदतः । तद्भवान् दण्डसंयोगादस्माद्विगतकिल्विषः ।।
गतः खां प्रकृति धयो धर्मदृष्टेन वर्मना । त्यज शोकं च मोहं च भयं च हृदये स्थितम् ॥
स्वया विधानं हर्यश्य न शक्यमतिपर्तितुम्' । यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर ।। ६५
तथा वर्तेत सुप्रीवे मयि चापि न संशयः ॥
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः ।
निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ।।
शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो ।
इदं महेन्द्रोपम भीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर ॥ ६७

इत्या. श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् किष्किन्धाकाण्डे वालिवधसमर्थनं नाम अष्टादशः सर्गः एकोनविंशः सर्गः तारागमनम्

स वानरमहाराजः शयानः शरविक्षतः। प्रत्युक्तो हेतुमद्वाक्योंत्तरं प्रत्यपद्यत ।
अश्मभिः परिभिनाङ्गः पादपैराहतो भृशम् । रामबाणेन च छान्तो जीवितान्ते मुमोह सः ।।