पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वामाफिरामायणे किष्किन्धाकाण्डे

कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः॥
वैदूर्यविमलस्सोयैः पद्मश्चाकोशफुटमलैः । शोभितान् सजलान् मार्ग तटाकांश्च व्यलोकयन् ॥
कारण्डैः सारसहसैर्वजुलैजलकुक्कुटैः । चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान् ।।
मृदुष्पाकुराहारानिर्भयान् बनगोचरान् । चरतः सर्वतोऽपश्यन् स्थलीषु हरिणान स्थितान् ।।९
सटाकवैरिणश्चापि शुक्दन्तविभूषितान् । घोरानेकचरान वन्यान् द्विरदान कूलघातिनः ।।
मत्तान् गिरितटोत्कृष्टाङ्गमानिव पर्वतान् । वारणान् वारिदप्रख्यान् महीरेणुसमुक्षितान् ।। ११
वने वनचरांश्चान्यान खेचरांश्च विहंगमान् । पश्यन्तस्त्वरिता जग्मुः सुप्रीववशवर्तिनः ।।
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः । द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥ १३
एष मेघ श्वाकाशे वृक्षषण्डः प्रकाशते । मेघसङ्घातविपुलः पर्यन्तकदलीवृतः ॥
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे । कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ १५
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम् ।। १६
एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् । उद्यानवनसंपन्न स्वादुमूलफलोदकम् ।।
अत्र सप्तजना नाम मुनयः संशितव्रताः । सप्तवासन्नधःशीर्पा नियतं जलशायिनः ।।
सप्तरात्रकृताहारा वायुना वनवासिनः । दिवं वर्षशतैर्याताः सप्तभिः सकलेबराः॥
तेषामेवप्रभावेण द्रुमप्राकारसंवृतम् । आश्रमं सुदुराधर्षमपि सेन्द्रः सुरासुरैः ।।
पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः । विशन्ति मोहाधेऽप्यत्र निवर्तन्ते न ते पुनः ।।
विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः । सूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव ।।
श्रेताग्नयोऽपि दोष्यन्ते धूमो ह्येष प्रदृश्यते । वेष्टयनिव वृक्षाप्रान् कपोताङ्गारुणो धनः ।।
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः । मेघजालप्रतिच्छन्ना वैदूर्यगिरयो यथा ।।
कुरु प्रणामं धर्मात्मस्तान समुद्दिश्य राधव । लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः।।
प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम् । न तेषामशुभं किंचिच्छरीरे राम दृश्यते ॥
सतो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः । समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ।।
अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः । मुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ॥ २८
ते गत्या दूरमध्वानं तस्मात् सप्तजनाश्रमात् । ददृशुस्तां दुराधर्षा किष्किन्धा वालिपालिताम् ॥ २९