पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयोदशः सर्गः

वस्य चैवं युवाणस्य सुग्रीवस्य महात्मनः । करुणं दीनया वाचा राघवः पुनरप्रवीत् ॥ २८
सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् । कारणं येन वाणोऽयं न मया स विसर्जितः ।। २९
अलंकारेण वेषेण प्रमाणेन गतेन च । त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर । विक्रमेण च वाक्यैश्च व्यक्ति वां नोपलक्षये ॥
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम । नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ।। ३२
जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः । मूलधातो न नौ स्याद्धि द्वयोरपि कृतो मया ।। ३३
त्वयि वीरे विपन्ने हि अज्ञानालाघवान्मया । मौन्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ।। ३४
दत्ताभयवधो नाम पातकं महदुच्यते । अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी ।।
त्वदधीना वयं सर्वे वनेऽस्मिारणं भवान् । तस्माधुभ्यस्व भूयस्त्वं मा मा शङ्कीश्च वानर' ॥३६
अस्मिन् मुहूर्ते सुप्रीव पश्य वालिनमाहवे । निरस्तमिपुणैकेन वेष्टमानं महीतले ॥
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर । येन त्वामभिजानीयां-द्वन्द्वयुद्धमुपागतम् ।। ३८
गजपुष्पीमिमा फुल्लामुत्पाट्य शुभलक्षणाम् । कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ।। ३९
ततो गिरितटे जातामुत्पाट्य कुसुमाकुलाम् । लक्ष्मणो गजपुष्पी तां तस्य कण्ठे व्यसर्जयत् ॥ ४०
स तया शुशुभे श्रीमालँतया कण्ठसक्तया । मालयेव बलाकानां ससन्ध्य इव तोयदः ।। ४१
विभ्राजमानो वपुषा रामवाक्यसमाहितः । जगाम सह रामेण किष्किन्धां कालिपालिताम् ॥

इत्यापें श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्तिकायां संहितायाम् किष्किन्धाकाण्डे सुग्रीवप्रत्ययदानं नाम द्वादशः सर्गः त्रयोदशः सर्गः सप्तजनाश्रमप्रणाम:

ऋश्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाप्रजः। जगाम सहसुप्रीषो वालिविक्रमपालिताम् ॥ १
समुद्यम्य महचापं रामः काञ्चनभूषितम् । शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान् ॥
अप्रतस्तु ययौ तस्य राघवस्य महात्मनः । सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः । ३
पृष्ठतो हनुमान् वीरो नलो नीलच वानरः । तारश्चैव महातेजा हरियूथपयूथपः ॥
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः॥