पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः सर्गः

ततस्तु रामानुजरामवानराः प्रगृह्म शखाण्युदितार्क तेजसः। पुरी सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागताः सह ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकान्ये चतुर्विंशतिसहसिकायां संहितायाम् किष्किन्धाकाण्ड सप्तजनाश्रमप्रणामो नाम त्रयोदशः सर्ग:

चतुर्दशः सर्गः सुग्रीवगर्जनम् सर्वे ते त्वरितं गत्वा किष्किन्धा वालिपालिताम् । वृक्षरात्मानमावृत्य व्यतिष्ठन् गहने बने। विस्तार्य सर्वतो दृष्टिं कानने काननप्रियः । सुप्रीवो विपुलग्रीवः क्रोधमाहारयभृशम् ॥ ततः स निनदं घोरं कृत्वा युद्धाय चाहयन् । परिवारैः परिवृतो नादैमिन्दनिवाम्बरम् ।। गर्जन्निव महामेघो वायुवेगपुरःसरः। अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा । दृष्टा रामं क्रियादक्षं मुग्रीवो वाक्यमब्रवीत् । हरिवागुरया' व्याप्तां तप्तकाञ्चनतोरणाम् ।। प्राप्ताः स्त ध्वजयन्त्राच्या किष्किन्धां वालिनः पुरीम् । प्रतिज्ञा या त्वया वीर कृता वालिवघे पुरा।। मफलां तां कृम क्षिप्रं लता काल इवागतः । एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ।। नमथोवाच सुग्रीवं वचनं शत्रुसूदनः । कृतामिक्षानचिह्नस्त्वमनया गजसासया ॥ लक्ष्मणन समुत्पाट्य यैषा कण्ठे कृता तव । शोभसे यधिक वीर लतया कण्ठसक्तया ।। विपरीत इवाकाशे सूर्यो नक्षत्रमालया । अद्य यालिसमुत्थं ते भयं वैरं च धानर ॥ एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे । मम दर्शय सुग्रीव वैरिणं भ्रातरूपिणम् ।। ११ अद्य वाली विनिहतो वनपांसुषु वेष्टते । यदि दृष्टिपथं प्राप्तो जीवन स विनिवर्तते ।। १२ ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च मां भवान् । प्रत्यक्षं सप्त ते साला मया वाणेन दारिताः ।।१३ तेनावेहि बलेनाद्य वालिनं निहतं मया । अनृतं नोक्तपूर्व मे वीर कृच्छ्रेऽपि तिष्ठता ॥ १४ धर्मलोभपरीतेन न च वक्ष्ये कथंचन । सफलां करिष्यामि प्रतिज्ञा जहि संभ्रमम् ॥ प्रसूतं कलम क्षेत्रे वर्षेणेव शतक्रतुः । तदाहाननिमित्तं त्वं वालिनो हेममालिनः॥ १६ सुग्रीव कुरु ते शब्दं निष्पतेयेन वानरः । जितकाशी बलश्लाघी त्वया चार्षितः पुरा ।