पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः सर्ग:

पादप्रहारैतु मया बहुभिस्तविदारितम् । ततोऽहं तेन निकम्य पथा पुरसुपागतः ॥
अत्रानेनास्मि संनद्धो राज्यं प्रार्थयतात्मनः । सुप्रीवेण नृशंसेन विस्मृत्य भासीहदम्।।
एवमुक्त्वा तु मां तत्र वगैकेन वानरः । सदा निर्वासयामास वाली विगतसाध्वसः ।। २६
तेनाइमपविद्धश्च हुतदारश्च राघव । तद्भयाच मही कृत्स्ना क्रान्तेयं सवनार्णवा ।।
ऋश्यमूकं गिरिवरं भाहरणदुःखितः । प्रविष्टोऽस्मि दुराधर्ष वालिनः कारणान्तरे ।।
एतत्ते सर्वमाख्यातं वैरानुकथनं महत् । अनागसा मया प्राप्तं व्यसनं पश्य राघव ।
वालिनस्तु भयार्तस्य सर्वलोकाभयंकर । कर्तुमर्हसि मे वीर प्रसादं तस्य निप्रहात् ।।
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् । वचनं वक्तुमारेभे सुमीवं प्रहसभिव ।। ३१
अमोघाः सूर्यसंकाशा ममते निशिताः शराः । तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वैगिताः ।। ३२
गायत्त नाभिपश्यामि तव भार्यापहारिणम् । तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः ॥ ३३
मात्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे । त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम्।।३४
तस्य तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् । सुप्रीवः परमप्रीतः सुमहाक्यमत्रवीत् ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् किरिकन्धाकाण्डे राज्यनिर्वासकथनं नाम दशमः सर्गः एकादशः सर्गः

वालिबलाविष्करणम्
गमस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च ॥
असंशयं प्रज्वलितैस्तीक्ष्णैर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ॥
वालिनः पौरुषं यत्तद्यच्च वीर्य धृतिश्च या । तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ।।
समुद्रात् पश्चिमात् पूर्व दक्षिणादपि चोत्तरम् । क्रामत्यनुदिते सूर्ये वाली व्यपगतमः ।।
अप्राण्यारुह्य शैलानां शिखराणि महान्त्यपि । ऊर्ध्वमुत्सात्य तरसा प्रतिगृहाति धीर्यवान् ।।
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः । वालिना तरसा भमा बलं प्रथयतात्मनः॥
महिषो दुन्दुभिनाम कैलासशिखरप्रभः । बलं नागसहस्रस्य धारयामास वीर्यवान् ॥
वीर्योत्सेकेन दुष्टात्मा बरदानाच मोहितः । जगाम सुमहाकायः समुद्रं सरितां पतिम् ।।
ऊर्मिमन्तममिक्रम्य सागरं रनसंचयम् । मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ।।
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः । अप्रवीद्वचनं राजन्नसुरं कालचोदितम् ।।