पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद । श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति ।। ११
शैलराजो महारण्ये तपस्विशरणं परम् । शंकरश्वशुरो नाना हिमवानिति विश्रुतः ॥ १२
महाप्रस्रवणोपेतो बहुकन्दरनिर्वरः । स समर्थस्तव प्रीसिम्सुला कर्तुमाहवे।
१३
तं मीत इति विज्ञाय समुद्रमसुरोत्तमः । हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ॥ १४
ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः । चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः । हिमवानप्रवीद्वाक्यं स्व एव शिखरे स्थितः॥ १६
लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल । रणकर्मस्वकुशलस्तपस्विशरणं पहम् ॥
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः । उवाच दुन्दुभिर्वाक्यं रोषात् संरक्तलोचनः ।।
यदि युद्धेऽसमर्थरत्वं मद्भयाचा निरुद्यमः । तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥ १९
हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्व धर्मात्मा क्रोधात्तमसुरोत्तमम् ।।
वाली नाम महाप्राज्ञः शकतुल्यपराक्रमः' । अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम् ।। २१
स समर्थो महाप्राज्ञस्तव युद्धविशारदः। द्वन्द्वयुद्ध महदातुं नमुचेरिव पासवः ।।
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि । स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ॥
श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः । जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा।।२४
धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥
ततस्तद्द्वारमागम्य किष्किन्धाया महाबलः । ननर्द कम्पयन् भूमि दुन्दुभिर्दुन्दुभिर्यथा ।।
समीपस्थान द्रुमान् भञ्जन् वसुधां दारयन् खुरैः । विषाणेनोल्लिखन दर्पात्तद्द्वारं द्विरदो यथा ॥२७
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः । निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥
मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम् । हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ।।
किमर्थ नगरद्वारमिदं रुद्ध्वा विनर्दसि । दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल ।।
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः । उवाच दुन्दुभिर्वाक्यं रोषात् संरक्तलोचनः ।। ३१
न त्वं त्रीसंनिधौ वीर वचनं वक्तुमर्हसि । मम युद्धं प्रयच्छाद्य ततो ज्ञास्यसि ते बलम् ।।
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् । गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥ ३३
दीयतां संप्रदानं च परिष्वज्य च वानरान् । सर्वशाखामृगेन्द्ररत्वं संसाद्य सुहृज्जनम् ।।