पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे दशमः सर्गः राज्यनिसकथनम्

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम । अहं प्रसादयांचक्रे भ्रातरं हितकाम्यया ॥
विष्ट्यासि कुशली प्राप्तो दिष्ट्यापि निहत्तो रिपुः । अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः ।।२
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् । छवं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ।।
आर्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप। दृष्टाहं शोणितं द्वारि बिलाचापि समुत्थितम् ।।
शोकसंविप्रहृदयो भृशं व्याकुलितन्द्रियः । अपिधाय बिलद्वारं गिरिशृङ्गण तत्तदा ॥
तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशे पुनः । विषादात्विह मां हटा पौरैमन्त्रिभिरेव च ॥
अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि । त्वमेव राजा मानाईः सदा चाहं यथापुरम् ।।
राजभावनियोगोऽयं मया त्वद्विरहात कृतः । सामात्यपौरनगरं स्थितं निहतकण्टकम् ।।
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् । मा च रोपं कृथाः सौम्य मयि शत्रुनिबर्हण ।।
याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः । बलादरिम समागम्य मन्त्रिभिः पुरवासिभिः ॥१०
राजभावे नियुक्तोऽहं शून्यदेशजिगीपया' । स्निग्धमेवं भुवाणं मां स तु निर्भर्त्य वानरः॥ ११
धिक त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह । प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान् ।।१२
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् । विदितं वो यथा रात्रौ मायावी स महासुरः ।। १३
मां समाह्वयत ऋो युद्धकाङ्क्षी सुदुर्मतिः । तस्य तद्दर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् ॥ १४
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः । स तु हदैव मां रात्रौ सद्वितीयं महाबलः ।। १५
प्राद्रवद्भयसंत्रस्तो वील्यावां तमनुद्रुतौ । अनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ।। १६
तं प्रविष्टं विदित्वा तु सुघोरं सुमह विलम् । अयमुक्तोऽथ में भ्राता मया तु क्रूरदर्शनः ।।
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् । बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ १८
स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् । तं च मे मार्गमाणस्य गतः संवत्सरस्तदा । १९
स तु दृष्टो मया शत्रुरनिर्वदाद्भयावहः । निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह ।।
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तडिलम् । पूर्णमासीदुराकामं स्तनतस्तस्य भूतले ॥ २१
सूदयित्वा तु तं शत्रु विक्रान्तं दुन्दुभैः सुतम् । निष्व व पश्यामि बिलस्यापिहित मुखम्।। २२
विक्रोशमानस्य तु मे सुप्रीवेति पुनः पुनः । यदा प्रतिवास्ति ततोऽहं भृशदुःखितः ।। २३