पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

सुखाईस्य महार्हस्य सर्वभूतहितात्मनः । ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च ।। १३
रक्षसापहता भार्या रहिते कामरूपिणा । तच न ज्ञायते रक्षः पनी येनास्य सा हता॥
दनुर्नाम दितेः पुत्रः शापाद्राक्षसतां गतः । आख्यातस्तेन सुग्रीवः समर्थो वानरर्पभः॥ १५
सशास्यति महावीर्यस्तव भार्यापहारिणम् । एवमुक्त्वा दनुः स्वर्ग भ्राजमानो गतः सुखम् ॥ १६
एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः । अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ १७
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः । लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ १८
पिता यस्य पुरा' ह्यासीच्छरण्यो धर्मवत्सलः । तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः ।। १९
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा । गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः ॥
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः । स रामो वानरेन्द्रस्य प्रसादभिकाश्ते ।। २१
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः । मानिताः सततं राज्ञा सदा दशरथेन वै ।।
तस्यायं पूर्वजः पुत्रलिपु लोकेषु विश्रुतः । मुग्रीवं वानरेन्द्र तु रामः शरणमागतः ।। २३
शोकाभिभूते रामे तु शोकार्त शरणं गते । कर्तुमर्हति सुग्रीवः प्रसादं हरियूथपः ।।
एवं ब्रुवाणं सौमित्रिं करणं साक्षुलोचनम् । हनुमान प्रत्युवाचेदं वाक्य वाक्यविशारदः ।
ईशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः । द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः २६
स हि राज्यात् परिभ्रष्टः कृतवैरश्च वालिना । ईतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ।। २७
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः । सुग्रीवः सह चास्माभिः सीतायाः परिमार्गगे।
इत्येवमुक्त्वा हलुमालक्ष्णं मधुरया गिरा । बभापे साधु गच्छेम सुप्रीवमिति राघवम् ॥ २९
एवं अवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः । प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥
कपिः कथयते हृष्टो यथायं मारुतात्मजः । कृत्यवान मोऽपि संप्रातः कृतकृत्योऽसि राघव ॥ ३१
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते । नानृतं वक्ष्यते धीरो हनुमान मारुतात्मजः ॥ ३२
ततः स तु महापाको हनुमान मारुतात्मजः'। जगामादाय तौ वीरौ हरिराजाय राघवौ ।। ३३
भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः । पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ।। ३४
स तु विपुलयशाः कषिप्रवीरः पवनसुतः कृतकृत्यवत् प्रष्टः ।
गिरिवरमुरुविक्रमः प्रयातः सुशुभमतिः सह रामलक्ष्मणाभ्याम् ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् किपिन्धाकाण्डे सुग्रीवसमीपगमन नाम चतुर्थः सर्गः