पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः सर्गः

अनया चित्रया बाचा विस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि ।। ३३
एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु । सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ।।३४
एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः । तस्य सिध्यन्ति सर्वार्था दूतवाक्यप्रचोदिताः ॥ ३५
एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम । अभ्यभाषत वाक्यज्ञो वाक्यज्ञं परनात्मजम् ॥३६
विदिता नौ गुणा विद्वन् सुप्रीवस्य महात्मनः । तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम् ।।३७
यथा बचीषि हनुमन् सुग्रीववचनादिह । तत्तथा हि करिष्यावो वचनात्तव सत्तम ।। ३८
तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः ।
मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम ।।
३९

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां किरिकन्धाकाण्ड हनूमत्प्रे पण नाम तृतीयः सर्गः चतुर्थः सर्गः सुग्रीवममीपगमनम

ततः प्रदृष्टो हनुमान 'कृत्यवानिति तद्वचः । श्रुत्वा मधुरभावं च' सुग्रीवं मनमा गतः ॥
भन्यो राज्यागमनस्य सुग्रीवस्य महात्मनः । यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥
तनः परमसंदृष्टो हनुमान प्लवगर्पभः । प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः॥
किमर्थ त्वं वनं घोरं पम्पाकाननमण्डितम् । आगतः सानुजो दुर्ग नानाव्यालमृगायुतम् ।।
तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः । आचचक्षे महात्मानं रामं दशरथात्मजम् ।।
राजा दशरथो नाम द्युतिमान् धर्मवत्सलः । चातुर्वण्य स्वधर्मेण नित्यमेवाभ्यपालयत् ॥
न द्वेष्या विद्यते तस्य न च स द्वेष्टि कंचन । स च सर्वेषु भूतेषु पितामह वापरः ॥
अमिष्टोमादिभिर्यज्ञैरिटवानाप्तदक्षिणैः । तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः । वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ।।
राजलक्षणसंपन्नः संयुक्तो राजसंपदा | राज्याभ्रष्ट्रो वने वस्तुं मया सार्धमिहागतः ।।
भार्यया च महातेजाः सीतयानुगतो वशी । दिनक्षये महातेजाः प्रभयेव दिवाकरः ।।
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः । कृतज्ञस्य बहुझस्य लक्ष्मणो नाम नामतः ।।

१. मधुरसंभाषम् च. अस्यानन्तरम्-अयोध्याधिपतियार प्रवा- कूणां महारथः--इति प. २.