पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ । राजर्षि देवप्रतिमौ तापसौ संशितव्रतौ ।।
देश कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ । त्रासयन्ती मृगगणानन्यांश्व वनचारिणः ।।
पम्पातीररुहान वृक्षान् वीक्षमाणौ समन्ततः । इमां नदी शुभजलां शोभयन्तौ 'तरस्विनौ ।।
धैर्यवन्तौ सुवर्णाभौ कौ युषां चीरवामसौ । निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः॥
सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ । शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ ॥
श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ । हस्तिहस्तोपमभुजौ घुतिमन्तौ नरर्षभौ ॥
प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः । राज्याहविमरप्रख्यौ कथं देशमिहागतौ ॥ ११
पनपत्रेक्षणौ वीरौ जटामण्डलधारिणी । अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ।। १२
यदृच्छयेव संप्राप्तौ चन्द्रसूयौँ वसुंधराम् । विशालवक्षसौ वीरौ मानुपौ देवरुपिणी ।।
सिंहस्कन्धौ महोत्साही समदाविव गोवृपौ । आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ॥
सर्वभूषणभूषाहः किमर्थ न विभूषिताः । उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ॥
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूपिताम् । इमे च धनुषी चित्रे लक्षणे चित्रानुलेपने ॥ १६
प्रकाशेते यथेन्द्रस्य बने हेमविभूषिते । संपूर्णा निशितैर्बाणैस्तूणाश्च शुभदर्शनाः ।। १७
जीवितान्तकरै? रैः श्वसद्भिरिव पन्नगैः । महाप्रमाणो विस्तीर्णौ तहाटकभूषितौ ।।
खड्गावेतौ विराजेते निर्मुक्ताविव पन्नगौ ! एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ।।
सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः । वीरो विनिकृतो भ्रात्रा जगभ्रमति दुःखितः ।। २०
प्राप्तोऽहं प्रेषितम्तेन सुग्रीवेण महात्मना । राजा वानरमुख्यानां हनुमानाम वानरः ॥ २१
युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति । तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥.२२
भिक्षुम्पप्रतिच्छन्नं सुग्रीवप्रियकाम्यया । ऋश्यमूकादिह प्राप्नं कामगं कामरूपिणम् ॥ २३
एवमुक्त्वा तु हनुमास्तौ वीरौ रामलक्ष्मणौ । वाक्यज्ञौ वाक्यकुशल: पुनर्नोवाच किंचन ॥ २४
एतच्छ्रुत्वा वरस्तस्य रामो लक्ष्मणमब्रवीत् । प्रष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ।।२५
सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव काङ्खमाणस्य ममान्तिकमुपागतः ॥ २६
अभिभाषस्व सौमित्रे सुग्रीवसचिव कपिम् । वाक्यज्ञं मधुरेाक्यैः स्नेहयुक्तमरिंदम ।।
नानृग्वेदविनीतस्य नायजुर्वेदधारिणः । नासामवेदविदुषः शक्यमेवं प्रभापितुम् ।।
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरतानेन न किंचिदपशब्दितम् ॥ २९
न मुखे नेत्रयोर्वापि ललाटे च भ्रुवोस्तथा । अन्येष्वपि च गात्रेषु दोषः संविदितः कचित् ॥
अविस्तरमसन्दिग्धमविलम्बितमद्रुतम् । उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमे खरे ॥ ३१
संस्कारक्रमसंपन्नामद्रुतामविलम्बिताम् । उच्चारयति कल्याणी वाचं हृदयहारिणीम् ॥ ३२