पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचमः सर्गः ४२५ पञ्चमः सर्गः सुप्रीवसख्यम्

ऋश्यमूकातु हनुमान गत्वा तं मलय गिरिम् । आचचक्षे तदा वीरौ कपिराजाय राघौ॥ १
अयं रामों महाप्राज्ञः संप्राप्तो दृढविक्रमः । लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ।।
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः । धर्म च निरतश्चैव पितुर्निर्देशपालकः ।।
राजसूयाश्वमेधैश्च बहिर्येनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शनसहमशः ॥
तपसा सत्यवाक्येन वसुधा येन पालिता । स्त्रीहेतोस्तस्य पुत्रोऽयं रामोऽरण्यं समागतः॥ ५
तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः । रावणेन हता भार्या स त्वां शरणमागतः ।। ६
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ । प्रतिगृह्यायस्वैतौ पूजनीयतमावुभौ ।।
श्रुत्वा हनुमतो वाक्यं सुग्रीवो दृष्टगानसः । भयं स राघवादोरं प्रजही विगतज्वरः ॥
स कृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः' । दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ।।५
भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः । आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ १०
तन्ममैवैप सत्कारो लाभश्चैवोत्तमः प्रभो । यत्त्वमिच्छमि सौहार्द वानरेण मया सह ॥ ११
रोचते यदि वा सव्यं बाहुरेष प्रसारितः । गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा ।। १२
एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् । स प्रहष्टमना हरतं पीडयामास पाणिना ।। १३
हृय सौहृदमालम्ब्य पर्यप्वजत पीडितम् । ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः ।।
काट्योः स्वेन रूपेण जनयामास पावकम् । दीप्यमानं ततो वहिं पुप्पैरभ्यर्च्य सत्कृतम् ।।
तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः । ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ।।
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ । ततः सुप्रीतमनसौ तावुभौ हरिराघवौ ॥
अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः । त्वं क्यस्योऽसि मे हृद्यो होकं दुःखं सुखं च नौ ॥ १८
सुग्रीवं राघवो वाक्यमित्युवाच प्रहृष्टवत् । ततः स पर्णपटुलां छित्त्वा शाखा सुपुष्पिताम् ॥ १९
सालस्यारतीय सुप्रीवो निषसाद सराघवः । लक्ष्मणायाथ संहृष्टो हनुमान प्लवगर्पभः ॥
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् । ततः प्रदृष्टः सुग्रीवः लक्ष्णं मधुरया गिरा। २१
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः । अहं विनिकृतो राम चरामीह भयादितः ॥