पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः सर्गः ४१९

दीपयन्तीव मे काम विविधा मुदिता द्विजाः । श्यामां चन्द्रमुखी स्मृत्वा प्रियां पद्मनिभेक्षणाम् ।।
पश्य सानुषु चित्रेषु मृगोभिः सहितान् मृगान् । मां पुनर्मूगशाघाझ्या वैदेह्या विरहीकृतम् ॥ १०२
व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः । अस्मिन् सानुनि रम्ये हि मत्तद्विजगणायुते । १०३
पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम । जीवेयं खलु सौमित्रे मया सह सुमध्यमा ॥ १०४
सेवते यदि वैदेही पम्पायाः पवन सुखम् ! पद्मसौगन्धिकवहं शिवं शोकविनाशनम् ।।
धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम् । श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया ॥ १०६
कथं धारयति प्राणान् विक्शा जनकात्मजा । किं नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् ।।१०७
सीताया जनकं पृष्टः कुशलं जनमंसदि । या मामनुगता मन्दं पित्रा प्रस्थापितं वनम् ।। १०८
सीता सत्पथमास्थाय क नु सा वर्तते प्रिया । नया विहीनः कृपणः कथं लक्ष्मण धारये ।। १०९
या मामपगता राज्याष्टं विगतचेतसम् । नमाञ्चितपक्ष्माक्षं सुगन्धि शुभमत्रणम् ।।
अपश्यतो मुखं तस्याः सीदतीव मनो मम । स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् ।। १११
वैदेह्या वाक्यमतुलं कदा श्रोप्यामि लक्ष्मण । प्राप्य दुःखं बने श्यामा सा मां मन्मथकर्शितम् ।।
नष्टदुःग्येव दृष्टेव साध्वो माध्वभ्यभापत । किं नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज ॥ ११३
कमा स्नुषेति पृच्छन्ती कथं चातिमनस्विनोम । गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्॥११४
न हहं जीवितुं शक्ततामृते जनकात्मजाम् । इति रामं महात्मानं विलपन्तमनाथवत् ॥ ११५
उवाच लक्ष्मणो भ्राना वचनं युक्तमव्ययम् । संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम ।। ११६
नेशानां मतिर्मन्दा भवत्यकलुपात्मनाम । स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने ॥ ११७
अतिस्नेहपरिष्वङ्गार्तिरापि दह्यते । यदि गच्छति पातालं ततो ह्यधिकमेव वा ॥ ११८
सर्वथा रावणम्तावन्न भविष्यति राघव। प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः ।। ११९
ततो हास्यति वा सीतां निधनं वा गमिष्यति । यदि याति दितर्गर्भ' रावणः सह सीतया ॥ १२०
तत्राप्येनं हनिष्यामि न चेद्दास्यति मैथिलीम । स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः ॥
अर्थोहि नष्टकार्या यत्नेनाधिगम्यते । उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।। १२२
सोत्साहस्यास्ति लोकेषु न किंचिदपि दुर्लभम् । उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । १२३
उत्साहमात्रमाश्रित्य प्रतिल स्याम जानकीम् । त्यज्यतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः ॥ १२४
महात्मानं कृतात्मानमात्मानं नावबुध्यसे । एवं संबोधितस्तत्र शोकोपहतचेतनः ।। १२५
न्यस्य शोकं च मोहं च ततो धैर्यमुपागमत् । सोऽभ्यतिक्रामव्यग्रस्तामचिन्त्यपराक्रमः ॥ १२६
रामः पम्पां सुरुचिरां रम्यां पारिप्लवद्रुमाम् ।।
निरीक्षमाणः सहसा महात्मा सर्व वनं निर्झरकन्दरांश्च ।
उद्विप्रचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ।