पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

पद्मकेसरसंमृष्टो वृक्षान्तरविनिःसृतः । निःश्वास इव सीताया वाति वायुमनोहरः॥ ७२
सौमित्र पश्य पम्पाया दक्षिणे गिरिमानुनि । पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ।। ७३
अधिकं शैलराजोऽयं धातुभिः मुविभूषितः । विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥
गिरिप्रस्थास्तु सौमित्र सर्वतः संप्रपुष्पितेः । निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ।।
पम्पातीररुहाश्चमे संसक्ता मधुगन्धिनः । मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः ॥
केतक्यः सिन्धुवाराश्च वासन्त्यश्व सुपुष्पिताः । माधच्यो गन्धपूर्णाश्च फुन्दगुल्माश्च सर्वशः ॥ ७७
चिरिबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा । चम्पकास्तिलकाश्चैव नागवृक्षाः सुपुनिताः ॥ ७८
नीपाश्च वरणाश्चैव खजूराश्च सुपुष्पिताः । पद्मकाश्चोपशोभन्ते नीलाशोकाश्च पुष्पिताः॥
लोध्राश्च गिरि सिंहकसरपिञ्जराः । अकोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ॥
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः । मुचुलिन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु ॥ ८१
केसकोद्दालकाश्चैव शिरीपाः शिंशपा धवाः । शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा ।। ८२
तिनिशा ननमालाश्च चन्दनाः स्पन्दनास्तथा। हिन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः॥ ८३
पुष्पितान् पुष्पिताग्राभिलताभिः परिवेष्टितान् । द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान बहून् ॥८४
बातविनिमविटपान यथासन्नान द्रुमानिमान् । लताः समनुवेष्टन्ते मत्ता इत्र वरस्त्रियः ।।
पादपात् पादपं गच्छशैलाच्छैलं वनाहनम् । वाति नैकरसास्वादसंमोदित इवानिलः ।
केचित् पर्याप्रकुसुमाः पादपा मधुगन्धिनः । कचिन्मुकुलसंवीताः श्यामवर्णा इवात्रभुः ।।
इदं सृष्टमिंद स्वादु प्रफुल्लमिदमित्याप । रागमत्तो मधुकरः कुसुमेष्वक्लीयते ॥
निलीय पुनरुत्पत्य सहसान्यत्र गच्छति । मधुलुब्धा मधुकरः पम्पातीरद्रुमेध्वसौ ॥ ८९
इयं कुसुमसङ्घातैरुपस्तीर्णा मुखाकृता । स्वयं निपतित मिः शयनप्रस्तरैरिव ।।
९०
विविधा विविधैः पुप्परतैरेव नगसानुपु । विशीर्णैः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः ।।
हिमान्ते पश्य सौमित्र वृक्षाणां पुष्पमंभवम् । पुष्पमासे हि तरयः सङ्घर्षादिव पुष्पिताः ॥ ९२
आयन्त इवान्योन्यं नगाः षट्पदनादिताः । कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण ॥ ९३
एष कारण्डवः पक्षी विगाय सलिलं शुभम् । रमते कान्तया साध काममुद्दीपयन् मम ॥
मन्दाकिन्यान्तु यदिदं रूपमेवे मनोहरम् । स्थाने जगति विख्याता गुणारतस्या मनोरमाः ॥ ९५
यदि दृश्येत मा साध्वी यदि चेह वसेमहि । स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ॥
न ह्येवं रमणीयेषु शाहलेषु तया सह । रमतो मे भवेचिन्ता न स्पृहान्येपु वा भवेत् ।।
अमी हि विविधैः पुप्पैस्तरको रुचिरच्छदाः । काननेऽस्मिन् विना कान्तां चिनमुन्मादयन्ति मे॥९८
पश्य शीतजला चेमां सौमित्र पुष्करायुताम् । चक्रावाकानुचरिता कारण्डवनिषेविताम् ॥ ९९
प्लवैः क्रौश्वेश्च संपूर्णा वराहमृगसेविताम् । अधिकं शोभते पम्पा विकूजद्भिर्विहंगमैः ।। १००