पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

तं मत्तमातङ्गविलासगामी गच्छन्तमव्यप्रमना महात्मा ।
स लक्ष्मणो राघवमिष्टचेष्टो ररक्ष धर्मेण बलेन चैव ।।
तावृश्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ ।
शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किंचित् ॥
स ती महात्मा गजमन्दगामी शाखामृगस्तत्र चिरं चरन्सौ ।।
दृष्टा विषादं परमं जगाम चिन्तापरीतो भयभारमनः ।।
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् ।
वरताश्च दृष्टा हरयोऽभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ ।

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकान्थे चतुर्विंशतिसहसिकायां संहितायाम् किष्किन्धाकाण्डे रामविप्रलम्भावेशी नाम प्रथमः सर्गः द्वितीयः सर्गः सुग्रीवमन्त्रः

तौ तु दृष्टा महात्मानौ भ्रातरौ रामलक्ष्मणौ । वरायुधधरौ वीरौ सुप्रीवः शङ्कितोऽभवत् ।।
उद्विग्नहृदयः सर्वा दिशः समवलोकयन् । न व्यतिष्ठत कस्मिंश्चिदशे वानरपुंगवः ।।
नैव चक्र मनः स्थाने वीक्षमाणो महावलौ । कपेः परमभीतस्य चिनं व्यवससाद ह ॥ ३
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् । मुग्रीवः परमोद्विनः सर्वरनुचरैः सह ॥
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः । शशंस परमोद्विमः पश्यंस्तौ रामलक्ष्मणौ ।।
एतौ वनमिदं दुर्ग वालिप्रणिहितौ ध्रुवम् । छद्मना चीरवसनौ प्रचरन्ताविहागतौ ॥
ततः सुप्रीवाचवा दृष्टा परमधन्विनौ । जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥
ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् । हरयो वानरश्रेष्ठ परिवार्योपतस्थिरे ।।
एकमेकायनगनाः पवमाना गिरेगिरिम् । प्रकम्पयन्तो चेगेन गिरीणां शिखराण्यपि ॥
ततः शाखामृगाः सर्व प्लवमाना महाबलाः । बभञ्जुश्च नगांस्तत्र पुष्पितान दुर्गसंश्रिताम् ॥१०
आप्लवन्तो हरिवराः मर्वतस्तं महागिरिम् । मृगमार्जारशाईलांखासयन्तो ययुस्तदा । ११
ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः । संगम्य कपिमुख्येन सर्व प्राञ्जलयः स्थिताः ॥ १२
सतस्स भयसविमं वालिकिल्बिपशङ्कितम् । उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः ।। १३
संभ्रमस्त्यज्यतामेप सधैर्बालिकृते महान् । मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः॥ १४