पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥श्रीः॥ ॥ श्रीमद्वाल्मीकिरामायणम् ॥ ॥ अथ किष्किन्धाकाण्डः॥ प्रथमः सर्गः रामविप्रलम्भावेशः

म तां पुष्करिणी गत्वा पद्मोत्पलझपाकुलाम । रामः सौमित्रिसहिनो विललापाकुलेन्द्रियः ॥
तस्य दृष्दैव तां हर्षादिन्द्रियाणि चकम्पिरे । स कामवशमापन्नः सौमित्रिमिदमत्रवीत् ।।
सौमित्रे शोभते पम्पा वैदूर्यविमलोदका । फुल्लपद्मोत्पलवती शोभिना विविधैर्द्रमैः ।।
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव ॥
मां तु शोकाभिसंतममाधयः पीडयन्ति ३' । भरतस्य च दुःखेन वैदेशा हरणेन च ।
शोकार्तस्यापि ने पम्पा शोभते चित्रकानना । व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ।।
नलिनैरपि संछन्ना यत्यर्थं शुभदर्शना । सर्पव्यालानुचरिता मृगद्विजसमाकुला ।।
अधिकं प्रतिभात्येतन्नीलपीतं तु शाबलम् । द्रुमाणां विविधैः पुष्पैः 'परिस्तोमैरिवार्पितम् ।
पुष्पभारसमृद्धानि शिखराणि समन्ततः । लताभिः पुष्पितामाभिरूपगूढानि सर्वतः ॥
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः । गन्धवान सुरभिर्मासो जानपुष्पफलद्रुमः ।।
पश्य रूपाणि सौमित्रे बनानां पुष्पशालिनाम् । सृजतां पुष्पवर्षाणि तोय तोयमुचामिव ॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुप्पैरवकिरन्ति गाम् ॥
पतितैः पतमानैश्च पादपस्थैश्च मारुतः । कुसुमैः पश्य सौमित्रे क्रीडनिव समन्ततः ।।
विक्षिपन विविधाः शाखा नगानां कुसुमोत्कचाः । मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥
मत्तकोकिलसंनादैर्तयनिय पादपान् । शैलकन्दरनिष्क्रान्तः प्रगीत इव चानिलः ।।
तेन विक्षिपतात्यर्थ पवनेन समन्ततः । अमी संसक्तशाखामा प्रथिता इव पादपाः ।।
स एष सुखसंस्पर्शी वाति चन्दनशीतलः । गन्धमभ्यावहन पुण्यं श्रमापनयनोऽनिलः ॥