पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वास्मीकिरामायणे किष्किन्धाकाण्डे

अमी पवनविक्षिप्ता विनदन्तीय पादपाः। षंड्पदैरनुकूजगिर्वनेषु मधुगन्धिषु ।। १८
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः । संसक्तशिखराः शैला विराजन्ते महाद्रुमैः ।। १९
पुष्पसंछन्नशिखरा मारुतोरक्षेपचञ्चला । अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ।।
सुपुष्पितांस्तु पश्येमान कर्णिकारान् समन्ततः । हाटकप्रतिसंछन्नानरान् पीताम्बरानिव ।।
अयं वसन्तः सौमित्रे नानाविहगनादिनः । सीतया विहीणस्य शोकसंदीपनो मम ।।
मां हि शोकसमाकान्त संतापयति मन्मथः । हृष्टः प्रवदमानश्च मामाइयति कोकिलः ।। २३
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे । प्रणदन मन्मथाविष्ट शोचयिष्यति लक्ष्मण ॥
श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया । मामाहूय प्रमुदिता परमं प्रत्यनन्दत ।।
एवं विचित्राः पतगा नानारावविराविणः । वृक्षगुल्मलताः पश्य संपतन्ति समन्ततः ।। २६
विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः । भृजराजप्रमुदिताः सौमित्रे मधुरस्वराः ।। २७
अस्याः कूले प्रमुदिताः शकुनाः सङ्घशस्त्विह् । दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि ।।
स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपनाः । अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः ।। २९
मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति । न हि तां सूस्मपक्ष्माक्षी सुकेशी मृदुभाषिणीम् ॥ ३०
अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् । अयं हि दयितस्तस्याः कालो रुचिरकाननः॥ ३१
कोकिलाकुलसीमान्तो दयिताया ममानघ । मन्मथायाससंभूतो वसन्तगुणवर्धितः ॥ ३२
अयं मां धक्ष्यति क्षिप्रं शोकामिर्नचिरादिव । अपश्यतस्तां दयितां पश्यतो रुचिरदुमान् ॥ ३३
मभायमात्मप्रभवो भूयस्त्वमुपयास्यति । अदृश्यमाना वैदेही शोकं वर्धयनीह मे ॥
दृश्यमानो वसन्तश्च स्वेदसंसर्गदूपकः । मां हि सा मृगशालाक्षी चिन्ताशोकबलात्कृतम् ।।
संतापयति सौमित्रे रश्चैत्रो वनानिलः । अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः ।।
स्वैः पक्षैः पवनोधूतैर्गवाक्षः स्फाटिकैरिव । शिखिनीभिः परिवृतास्त एते मदमूर्छिताः ।।
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः । पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ।। ३८
शिखिनी मन्मथातपा भर्तारं गिरिसानुषु । तामेव मनसा रामां मयूरोऽप्युपधावति ।। ३९
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव । मयूरस्य वने नूनं रक्षसा न हृता प्रिया ।।
तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया । मम त्वयं विना वासः पुष्पमासे सुदुःसहः ।। ४१
पश्य लक्ष्मण संराग तिर्यग्योनिगतेष्वपि । यदेषा शिखिनी कामाद्भर्तारममिवर्तते ॥
ममाप्येवं विशालाक्षी जानकी जातसंभ्रमा । मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥ ४३
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे । पुष्पभारसमृद्धानां वनानां शिशिरात्यये ।।
रुधिराण्यपि पुष्पाणि पादपानामतिश्रिया । निष्फलानि महीं यान्ति समं मधुकरोत्करैः ॥