पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः । अनुशिष्याद्धि को नु त्वामपि साक्षागृहस्पतिः ॥१८
बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया । शोकेनाभिप्रसुप्तं ते झानं संबोधयाम्यहम् ॥ १९
दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम् । इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे।। २०
किं ते सर्वविनाशेन कृतेन पुरुषर्षभ । तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमईसि ।।२१

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहमिकायां संहितायाम् अरण्यकाण्डे आचित्यप्रयोधनं नाम षट्षष्टितमः सर्गः सप्तषष्टितमः सर्गः गृध्रराजदर्शनम्

पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् । सारग्राही महासारं प्रतिजग्राह राघवः ।।१
संनिगृह्य महाबाहुः प्रवृद्धं रोषमात्मनः । अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥२
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण । केनोपायेन पश्याव सीतामिति विचिन्तय ॥३
तं तथा परितापात लक्ष्मणो राममब्रवीत् । इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ।।४
राक्षसैर्बहुभिः कीर्ण नानाद्रुमलतायुतम् । सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ।।५
गुहाश्च विविधा घोरा नानामृगगणाकुलाः । आवासाः किंनराणां च गन्धर्वभवनानि च ॥६
तानि युक्तो मया सार्धं समन्वेषितुमर्हसि । त्वद्विधा बुद्धिसंपन्ना महात्मानो नरर्षभाः ।।७
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः । इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ॥८
क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् । ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ॥९
ददर्श पतितं भूमौ क्षतजार्द्र जटायुपम् । तं दृष्टा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ।।१०
अनेन सीता वैदेही भक्षिता नात्र संशयः । गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् ।। ११
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम । एनं वधिष्ये दीप्तास्यैर्घो रैर्बाणैरजिह्मगैः॥ १२
इत्युक्त्वाभ्यपतद्गृधं संधाय धनुषि क्षुरम् । क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम् ।। १३
तं दीनं दीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी तु रामं दशरथात्मजम ॥१४
यामोषधिमिवायुष्मन्नन्वेषसि महावने । सा देवी मम च प्राणा रावणेनोमयं हृतम् ॥ १५
त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्टा रावणेन बलीयसा ।।१६
सीतामभ्यवपन्नोऽहं रावणश्च रणे मया । विध्वंसितरथच्छत्रः पातितो धरणीतले ॥१७
एतदस्य धनुर्भग्नमेते चास्य शरास्तथा। अयमस्य रणे राम भग्नः सांप्रामिको रथः ॥१८
अयं तु सारथिस्तस्य मत्पक्षनिहतो भुवि । परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥ १९