पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बाधितमः सर्गः.

सीतासादाबदेहीमुपपाव विहायसम् । रक्षसा निहतं पूर्व न मां हन्तुं त्वमर्हसि ।। रामस्तस्य तु विज्ञाय वाष्पपूर्णमुखस्तदा । द्विगुणीकृततापातः सीतासको प्रियां कथाम् ।। २१ शुत्वा जटायुषो बाक्यं रामः सौमित्रिणा सह । गृधराज परिष्वज्य परित्यज्य महतुः ।। निपपातावशो भूमौ सरोद सहलक्ष्मणः । एकमेकायने दुर्गे निःश्वसन्तं कथंचन ॥ २३ समीक्ष्य दुःखिततरो रामः सौमित्रिमनवीन । राज्याद्मशो बने वासः सीता नष्टा द्विजो हतः ईशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् । संपूर्णमपि चेदश्च प्रतरेयं महोदधिम् ॥ सोऽपि नून ममालक्ष्म्या विशुष्येत् सरितां पतिः । नास्त्यभाग्यतरो लोके मतोऽस्मिन् सचराचरे ॥ येनेयं महती प्राप्ता मया व्यसनवागुरा। अयं पितृश्यस्यो मे गृध्रराजो जरान्वितः॥ शेते विनिहतो भूमौ मम भाम्यविपर्ययात् । इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः ।। जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन् ।। निकृत्तपक्षं रुधिरावसिक्तं स गृधराज परिरभ्य रामः । क मैथिली प्राणसमा ममेति विमुच्य वाच निपपात भूमौ ॥ २९ इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतर्विशतिसहस्तिकायां सहितायाम् अरण्यकाण्डे गृधराजदर्शन नाम सप्तपष्टितमः सर्ग:

अष्टषष्टितमः सर्गः संस्कार रामः संप्रेक्ष्य तं गृधं भुवि रौद्रेण पातितम । सौमित्रि मित्रसंपन्नमिदं वचनमब्रवीत् ।। ममायं नूनमर्थेषु यतमानो विहङ्गमः । राक्षसन हतः संख्ये प्राणांस्त्यजति दुस्त्यजाम् ।। अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते । तथा स्वरविहीनोऽयं विलयः समुदीक्षते ।। जटायो यदि शक्लोषि वाक्यं व्याहार पुनः । सीतामाख्याहि भद्रं ते वधमाल्याहि चात्मनः॥ ४ किंनिमिसोऽहरत् सीतां रावणस्तस्य कि मया । अपराधं' तु यं दृष्ट्रा रावणेन हृता प्रिया ॥ कथं तचन्द्रसंकाशं मुखमासीन्मनोहरम् । सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम ।। कथंबीर्यः कयरूपः किकर्मा स च राक्षसः । क चास्थ भवनं तात ब्रूहि मे परिपृच्छतः । तैमुद्रीक्ष्य स धर्मात्मा विलपन्तमनाथवत् । वाचा विक्लवया राम जटायुरिदमब्रवीत् ॥ हृता सा राक्षसेन्द्रेण रावणेन दुरात्मना । मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ॥ परिश्रान्सस्य मे तात पक्षी छित्त्वा स राक्षसः । सीतामादाय वैदेही प्रयातो दक्षिणां दिशम् ।। १