पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्षष्टितमः सर्गः

गुहाश्च विविधा घोरा नदीः पद्मवनानि च । देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः ॥ १४
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् । न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ।। १५
कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ।।
शीलेन साम्ना विनेयन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र ।
ततः समुत्सादय हेमपुङ्घैर्महेन्द्रवनप्रतिमैः शरौघैः

॥१६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां सहितायम् अरण्यकाण्डे क्रोधसहारप्रार्थना नाम पञ्चषष्टितमः सर्गः

षट्षष्टितमः सर्गः औचित्यप्रबोधनम्

तं यथा शोकसंतप्तं विलपन्तमनाथवत् । मोहेन महताविष्टं परिद्यूनमचेनसम् ॥१
ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः । रामं संबोधयामास चरणौ चाभिपीडयन् ।।२
महता तपसा राम महता चापि कर्मणा । राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः ।।३
तव चैव गुणैर्वद्धस्त्वद्वियोगान्महीपतिः । राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ।।४
स्पृशन्यागलवद्राजन् क्षणेन न भवन्ति च । आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः ।।५
यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे । प्राकृतश्चाल्पसत्त्वश्व इतरः कः सहिष्यते ॥६
दुःखितो हि भवॉंलोकास्तेजसा यदि धक्ष्यते । आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम् ।।७
लोकवभाव एवैप ययातिनहुषात्मजः । गतः शक्रेण सालोक्यमनयस्तं समस्पृशत् ।।८
महर्पिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः । अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ।।९
या चेयं जगतां माता देवी लोकनमस्कृता । अस्याश्च चलनं भूमेद्देश्यते कोसलेश्वर ॥ १०
यो धर्मौ जगतां नेत्रे यत्र सर्व प्रतिष्ठितम् । आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥११
सुमहान्त्यपि भृतानि देवाश्च पुरुषर्षभ । न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः ।। १२
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ । श्रूयेते नरशार्दूल न त्वं व्यथितुमर्हसि ॥ १३
नष्टायामपि वैदेह्यां हृतायामपि राघव । शोचितुं नाईसे वीर यथान्यः प्राकृतस्तथा ।। १४
त्वद्विधा न हि शोचन्ति सततं सत्यदर्शिनः । सुमहत्त्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ।। १५
तत्त्वतो हि नरश्रेष्ठ बुद्धथा समनुचिन्तय । बुद्धधा युक्ता महाप्राशा विजानन्ति शुभाशुभे॥ १६
अदृष्टगुणदोषाणामध्रुवाणां च कर्मणाम् । नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ।।१७