पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः । त्रिपुरं जघ्नुषः पूर्व रुद्रस्येव बभौ तनुः ।।७४
लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम् । शरमादाय संदीप्तं घोरमाशीविषोपमम् ।।७५
संदधे धनुषि श्रीमान रामः परपुरंजयः। युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत् ।।७६
यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण ।।७७
तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् ।।
पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् ।
सदेवगन्धार्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम् ।।७८

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे रामक्रोधो नाम चतुःषष्टितमः सर्गः

पञ्चषष्टितमः सर्गः क्रोधसंहारप्रार्थना

तप्यमानं तथा रामं सीताहरणकर्शिनम् । लोकानामभवे युक्तं संवर्तकमिवानलम् ।।१
वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः । दग्धुकामं जगत् सर्वं युगान्ते तु यथा हरम् ॥२
अदृष्टपूर्व संक्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः । अभ्रवीत्पाञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥३
पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः । न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ।।४
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा । एतच्च नियतं सर्व त्वयि चानुत्तमं रथः ।।५
एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि । ननु' जानामि कस्यायं भमः सांप्रामिको रथः ।।६
केन वा कस्य वा हेतोः सायुधः सपरिच्छदः । खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः ।।७
देशो निर्वृत्तसंग्रामः सुघोरः पार्थिवात्मज । एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर ।।८
न हि वृत्तं हि पश्यामि बलस्य महतः पदम् । नैकस्य तु कृते लोकान् विनाशयितुमर्हसि ।।९
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः । सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ।।१०
को नु दारप्रणाशं ते साधु मन्येत राघव । सरितः सागराः शैला देवगन्धर्वदानवाः ।।११
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः । येन राजन् हृता सीता तमन्वेषितुमर्हसि ॥१२
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षि भिः । समुद्रं च विचेष्यामः पर्वतांश्च वनानि च ॥१३