पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःषष्टितमः सर्गः

भग्नदण्डमिदं कस्य भूमौ सम्यङ्निपातितम् । काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः ।।४६
भीमरूपा महाकायाः कस्य वा निहता रणे । दीप्तपावकसंकाशो द्युतिमान् समरध्वजः।।४७
अपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः । रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ।।४८
कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः । शराबरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥ ४९
प्रतोदाभीपुहम्तोऽयं कस्यायं सारथिर्हतः । कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि ।।५०
चामरग्राहिणौ सौम्य सोष्णीषमणिकुण्डलौ । पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः ।।५१
वैरं शतगुणं पश्य ममेदं जीवितान्तकम् । सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः॥५२
हता मृता या सीता सा भक्षिता वा तपस्विनी । न धर्मस्रयते सीतां ह्रियमाणां महावने ॥ ५३
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण । के हि लोकेऽप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥ ५४
करतीमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण ।।५५
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् । निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥ ५६
मां प्राप्य हि गुणो दोपः संवृत्तः पश्य लक्ष्मण । अद्यैव सर्वभूतानां रक्षसामभवाय च ।।५७
संहृत्यैव शशिज्योत्स्नां महान सूर्य इवोदितः । संहत्यैव गुणान् सर्वान मम तेजः प्रकाशये ।।५८
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः। किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण।।५९
ममाखबाणसंपूर्णमाकाशं पश्य लक्ष्मण । निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ।।६०
संनिरुद्धग्रहगणमावारितानशाकरम । विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ।।६१
विनिर्मथितीलामं शुष्यमाणजलाशयम । ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम ॥ ६२
त्रैलोक्यं तु करिप्यामि संयुक्तं कालधर्मणा । न तां कुशलिनीं सीतां प्रदास्यन्ति यदीश्वराः ॥ ६३
अस्मिन मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् । नाक्वाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ॥ ६४
मम चापगुणोन्मुक्तैर्वाणजालैनिरन्तरम । अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् ।।६५
समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण । आकर्णपूर्णैरिषुभिर्जीवलोकं दुरासदैः ।।६६
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् । मम रोषप्रयुक्तानां सायकानां बलं सुराः॥ ६७
द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम् । नैव देवा न दैतेया न पिशाचा न राक्षसाः ।।६८
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते । देवदानवयक्षाणां लोका ये रक्षसामपि ।। ६९
बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः । निर्मर्यादानिमॉंल्लोकान् करिष्याम्यद्य सायकैः ॥७०
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः । तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् ।। ७१
नाशयामि जगत् सर्व त्रैलोक्यं सचराचरम् । यावद्दर्शनमस्या वै तापयामि च सायकैः ।।७२
इत्युक्त्वा रोषताम्राक्षः स्फुरमाणोष्ठसंपुटः । वल्कलाजिनमाबध्य जटाभारमबन्धयत् ॥७३