पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् । कञ्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी॥ २९
रामा रम्ये वनोद्देशे मया विरहिता त्वया । क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥३०
तां हेमवर्णा हेमाभां सीता दर्शय पर्वत । यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ ३१
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति । दर्शयत्रिव तां सीतां नादर्शयत राघवे ।।३२
ततो दाशरथी राम उवाच च शिलोच्चम् । मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥ ३३
असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः। इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ॥३४
यदि नाल्याति मे सीतामद्य चन्द्रनिभाननाम् । एवं स रुषितो रामो दिधक्षन्निव चक्षुषा ॥३५
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् । त्रस्ताया रामकाक्षिण्याः प्रधावन्त्या इतस्ततः ।। ३६
राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ । स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ॥३७
भग्रं धनुश्च तूणी च विकीर्णं बहुधा रथम् । संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ।।३८
पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः । भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥३९
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः । आवृतं पश्य सौमित्रे सर्वतो धरणीतलम।।४०
मन्ये लक्ष्मण वैदेही राक्षसः कामरूपिभिः । भित्त्वा भित्त्वा विभक्त्ता पा भक्षिता वा भविष्यति।।४१
तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः । बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ।।४२
मुक्तामणिचितं चेदं तपनीयविभूषितम् । धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥ ४३
राक्षसानामिदं वत्स शूराणामथवापि वा । तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् ।।४४
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् । छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ।।४५