पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टितमः सर्गः

त्वरमाणो जगामाथ सीतादर्शनलालसः । शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानस्ः ।।३
उद्भ्रमग्निव वेगेन विक्षिपन् रघुनन्दनः । तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः॥४
ददर्श पर्णशालां च रहितां सीतया तदा । श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ।।५
रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् । श्रिया विहीनं विध्वरतं संत्यक्तवनदेवतम् ।।६
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् । दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः ॥७
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाप्यथवा भीरुरथवा वनमाश्रिता ।।८
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः । अथवा पद्मिनीं याता जलार्थं वा नदीं गता ॥९
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते ।।१०
वृक्षाद्वृक्षं प्रधावन् स गिरेश्वाद्रिं नदान्नदीम । बभूव विलपन् गमः शोकपङ्कार्णवाप्लुतः ।।११
अपि कश्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया । कदम्ब यदि जानीपे शंस सीतां शुभाननाम ।। १२
स्निग्धपल्लवसंकाशा पीतकौशेयवासिनी । शंसम्ब यदि वा दृष्टा बिल्व विल्बोपमम्तनी ।।१३
अथवार्जुन शंम त्वं प्रियां तामर्जुनप्रियाम । जनकस्य सुता भीरुर्यदि जीवति वा न वा ॥१४
ककुभः ककुभोरु तां व्यक्तं जानानि मैथिलीम । यथा पल्लवपुष्पादृयो भाति ह्येप वनम्पतिः ॥ १५
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् । एष व्यक्तं विजानाति तिलकरितिलकपियाम ।।१६
अशोक शोकापनुद शोकोपहतचेतसम । त्वन्नामानं कुरु क्षिप्रं प्रियासंदाशनेन माम ॥१७
यदि ताल त्वया दृष्टा पक्कतालफलस्तनी । कथयस्व वगरोहां कारुण्यं यदि ते मयि ।।१८
यदि दृष्टा त्वया सीना जम्बु जाम्बूनदप्रभा । प्रियां यदि विजानापे निःशङ्कं कथयम्ब में॥ १९
अहो त्वं कर्णिकाराद्य सुपुष्पैः शोभसे भृशम । कर्णिकार प्रिया माध्वी शंस दृष्टा प्रिया यदि ।। २०
चूतनीपमहासालान् पनसान् कुरवान् धवान्। दाडिमानसनान गत्वा दृष्ट्वा रामो महायशाः ।।२१
बकुलानथ पुंनागान् चम्पकान् केतकीस्तथा । प्रच्छन् गमो वने भ्रान्त उन्मत्त इव लक्ष्यने ।। २२
अथवा मृगशाबाक्षीं मृग जानासि मैथिलीम । मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत ॥२३
गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाह्याहि वरवारण ।।२४
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना । मैथिली मम विस्रब्धं कथयम्ब न ते भयम् ।।२५
किं धावसि प्रिये दूरं दृष्टासि कमलेक्षणे । वृक्षैराच्छाद्य चात्मानं कि मां न प्रतिभापसे ।।२६