पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

प्रचोद्यमानेन मया गच्छेति बहुशस्तया । प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ।।९
न तत् पश्याम्यहं रक्षो यदस्य भयमावहेत् । निर्वृता भव नास्त्येतत् केनाप्येवमुदाहृतम् ॥ १०
विगर्हितं च नीचं च कथमार्योऽभिधाम्यति । त्राहीति वचनं सीते यतायेत् त्रिदशानपि ।।११
किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् । राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने ॥ १२
विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति । न भवत्या व्यथा कार्या कुनारीजनसेविता ।। १३
अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका । न सोऽस्ति त्रिपु लोकेषु पुमान् यो राघवं रणे।।१४
जातो वा जायमानो वा संयुगे यः पराजयेत् । न जय्यो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ १५
एवमुक्ता तु वैदेही परिमोहितचेतना । उवाचाश्रृणि मुञ्चन्ती दारुणं मामिदं वचः ।।१६
भावो मयि तवात्यर्थं पाप गव निवेशितः । विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि ।।१७
संकेताद्भरतेन त्वं गमं समनुगच्छसि । क्रोशन्तं हि यथास्यर्थं नैनमभ्यवपद्यसे ॥१८
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि । राघवग्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे ।।१९
एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः । क्रोधात् प्रस्फुरमाणोष्ठ आश्रमादस्मि निर्गतः।।२०
एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः । अत्रवीदुष्कृतं सौम्य तां विना यत्त्वमागतः ।। २१
जानन्नपि समर्थं मां रक्षसां विनिवारणे । अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान् ।। २२
न हि ते परितुष्यामि त्यक्त्वा यसि मैथिलीम । क्रुद्धायाः परुषं वाक्यं श्रुत्वा यत्त्वमिहागतः।।२३
सर्वथा त्वपनीतं ते मीनया यत् प्रचोदितः । क्रोधस्य वशमापन्नो नाकरोः शासनं मम ॥२४
असौ हि राक्षसः शेतं शरेणाभिहतो मया । मृगरूपेण येनाहमाश्रमादपवाहितः ।।२५
विकृष्य चापं परिधाय मायकं सलीलबाणेन च ताडितो मया ।
मार्गी तनुं त्यज्य स विक्लवम्वरो बभूव केयूरधरः स राक्षसः ।।२६
शगहतेनैव तदार्तया गिरा स्वरं ममालम्व्य सुदूरसंश्रवम् ।
उदाहतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥२७

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे लक्ष्मणागमनविगर्हणं नाम एकोनष्टितमः सर्ग:

षष्टितमः सर्गः रामोन्मादः

भृशमाब्रजमानस्य तस्याधोवामलोचनम् । प्रास्फुरचाखलद्रामो वेपथुश्चाप्यजायत ।।१
उपालक्ष्य निमित्तानि सोऽशुभानि मुद्दुर्मुहुः । अपि क्षेमं नु सीताया इति वै ब्याजहार च ॥२