पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

तिष्ठ तिष्ठ वग़रोहे न तेऽस्ति करुणा मयि । नात्यर्थ हास्यशीलासि किमर्थ मामुपेक्षसे ।। २७
पीनकौशेयकेनासि सूचिता वरवर्णिनि । धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ २८
नैव सा नूनमथवा हिंसिता चारुहासिनी । कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति ॥२९
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः । विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥३०
नूनं तच्छुभदन्तोष्ठ सुनासं चारुकुण्डलम् । पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम् ।। ३१
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता । कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ॥ ३२
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ । भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ ॥ ३३
मया विरहिता बाला रक्षसां भक्षणाय वै । सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ॥ ३४
हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित् । हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः॥३५
इत्येवं विलपन ग़मः परिधावन् वनाद्वनम् । क्वचिदुद्भ्र्मते वेगात् क्वचिद्विभ्रमते बलात् ॥३६
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः । स वनानि नदीः शैलान गिरिप्रस्रवणानि च ॥ ३७
काननानि च वेगेन भ्रमत्यपरिसंस्थितः ।।
तथा स गत्वा विपुलं महद्वनं परीत्य सर्व त्वथ मैथिलीं प्रति ।
अनिष्ठिनाशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमग ॥३८

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिमहमिकायां संहितायाम् अरण्यकाण्डे गमान्मादो नाम षष्टितमः सर्गः

एकषष्टितमः सर्गः सीतान्वेषणम्

दृष्ट्वाश्रमपदं शुन्यं रामो दशरथात्मजः । रहितां पर्णशालां च विश्वस्तान्यासनानि च ॥ १
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः । उवाच गमः प्राक्रुश्य प्रगृय रुचिरौ भुजौ ॥२
क्व नु लक्ष्मण वैदेहीं कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥ ३
वृक्षेणाच्छाद्य यदि मां सोते हसितुमिच्छसि । अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥ ४
यैः सह क्रीडरो सीते विश्वस्तैर्मुगपोतकैः । एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलक्षणाः ॥५
सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण । मृतं शोकेन महता सीताहरणजेन माम् ।।६
परलोके महाराजो नृनं द्रक्ष्यति मे पिता । कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ।।७
अपूरयित्वा तं कालं मत्मकाशमिहागतः । कामवृत्तमनार्य मां मृपावादिनमेव च ॥८
धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता । विवशं शोकसंतप्तं दीनं भग्नमनोरथम् ।।९