पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः॥ १३
स्वामिना प्रतिकूलेन प्रजातीक्ष्णेन रावण । रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ १४
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ १५
तदिदं काकतालीयं घोरमासादितं मया । अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ।। १६
मां निहत्य तु रामोऽसावचिरात्त्वां वधिष्यति । अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः ॥ १७
दर्शनादेव रामस्य हतं मामवधारय । आत्मानं च हतं विद्धि हत्वा सीतां सबान्धवम् ।। १८
आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया । नैव त्वमसि नाहं च नैव लङ्का न राक्षसाः॥१९
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर।
परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्विरीरितम् ॥ २०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे रावणानिन्दा नाम एकचत्वारिंशः सर्गः

द्विचत्वारिंशः सर्गः
स्वर्णमृगप्रेक्षणम्

एवमुक्त्वा तु वचनं मारीचो रावणं ततः । गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः॥ १
दृष्टः सोऽहं पुनस्तेन शरचापासिधारिणा । मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे ॥ २
नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते । वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ।। ३
किं नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥ ४
प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः । परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ।। ५
एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम् । इदानीमसि मारीचः पूर्वमन्यो निशाचरः ।। ६
आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः । मया सह तथा युक्तः पिशाचवदनैः खरैः ॥ ७
प्रलोभयित्वा वैदेही यथेष्टं गन्तुमर्हसि । तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥ ८
ततो रावणमारीचौ विमानमिव तं रथम् । आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् ।। ९
तथैव तत्र पश्यन्तौ पत्तनानि वनानि च । गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च ।। १०
समेत्य दण्डकारण्यं राघवस्याश्रमं ततः । ददर्श सहमारीचो रावणो राक्षसाधिपः ॥ ११
अवतीर्य रथात्तस्मात्ततः काञ्चभूषणात् । हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ १२
एतद्रामाश्रमपदं दृश्यते कदलीवृतम् । क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः ॥ १३