पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः । अनुगच्छति संभ्रान्तः सौमित्रिरपि सौहदात् ॥ २१
अपक्रान्ते च काकुतस्थे लक्ष्मणे च यथासुखम् । आहरिष्यामि वैदेही सहस्राक्षः शचीमिव ।। २२
एवं कृत्वा त्विदं कार्य यथेष्टं गच्छ राक्षस ! राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत ॥ २३
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये । अहं त्वानुगमिष्यामि सरथो दण्डकावनम् ॥ २४
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् । लङ्कां प्रतिगमिष्यामि कृतकार्यः सह त्वया ॥ २५
न चेत् करोषि मारीच हन्मि त्वामहमद्य वै । एतत् कार्यमवश्यं मे बलादपि करिष्यसि ॥ २६
राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य ।
एतद्यथावत् प्रतिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम् २७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे मायामृगरूपपरिग्रहनिर्बन्धो नाम चत्वारिंशः सर्गः

एकचत्वारिंशः सर्गः
रावणनिन्दा
आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत् । अब्रवीत् परुषं वाक्यं निश्शङ्को राक्षसाधिपम् ॥ १
केनायमुपदिष्टस्ते विनाशः पापकर्मणा । सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥ २
कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् । केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ।। ३
शत्रवस्तव सुव्यक्त हीनवीर्या निशाचराः । इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥ ४
केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना । यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ॥ ५
वध्याः खलु न हन्यन्ते सचिवास्तव रावण । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ॥ ६
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः । निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥ ७
धर्ममर्थ च कामं च यशश्च जयतां वर । स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ।। ८
विपर्यये तु तत्सर्व व्यर्थं भवति रावण । व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥ ९
राजमूलो हि धर्मश्च जयश्व जयतां वर । तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ १०
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर। न चापि प्रतिकूलेन नाविनीतेन राक्षस ।। ११
थे तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै। विषमेषु रथाः शीघ्रा मन्दसारथयो यथा ॥ १२