पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुमहद्वैष्णवं यत्सदतिसृष्टं महर्षिणा । वरं तद्धनुरुद्यम्य खरं समभिधावत ॥ २१
ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः । बिभेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥ २२
स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः । जगाम धरणीं सूर्यो देवतानामिवाज्ञया ।। २३
तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः । विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः॥ २४
स रामो बहुभिर्वाणैः खरकार्मुकनिःसृतैः । विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ २५
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे । मुमोच परमेष्वासः षट् शरानभिलक्षितान् ।। २६
शिरस्येकेन बाणेन द्वाभ्यां बाहोरथादयत् । त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह॥ २७
ततः पश्चान्महातेजा नाराचान् भास्करोपमान् । जिघांमू राक्षसं क्रुद्धं त्रयोदश समाददे ॥ २८
ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् । षष्ठेन तु शिरः संख्ये खरस्य रथसारथेः ।। २९
त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः । द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ ३०
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव । त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ।। ३१
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ ३२
तत् कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च ।
अपूजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ।। ३३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम्
अरण्यकाण्डे खररामसंप्रहारो नाम अष्टाविंशः सर्गः

एकोनत्रिंशः सर्गः
खरगदाभेदनम्
खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ।। १
गजाश्वरथसंबाधे बले महति तिष्ठता । कृतं सुदारुणं कर्म सर्वलोकजुगुप्सिनम् ।। २
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ।। ३
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर । तीक्ष्णं सर्वजनो हन्ति सर्पं दुर्गमिवागतम् ॥ ४
लोभात् पापानि कुर्वाणः कामाद्वा यो न बुध्यते । हृष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ।। ५
वसतो दण्डकारण्ये तापसान् धर्मचारिणः । किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ॥ ६
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः । ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ ७