पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशः सर्गः
खररामसंप्रहारः
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ।। १
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः । हतमेकेन रामेण त्रिशिरोदूषणावपि ॥ २
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षस. । आससाद खरो रामं नमुचिर्वासवं यथा ॥ ३
विकृष्य बलबच्चापं नाराचान् रक्तभोजनान् । खरश्विक्षेप रामाय क्रुद्धानाशीविषानिव ।। ४
ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । चचार समरे मार्गाशरै रथगतः खरः ।। ५
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । पूरयामास तं दृष्टा रामोऽपि सुमहद्धनुः ।। ६
स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः । नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः । ७
तद्बभूव शितैर्बाणैः खररामविसर्जिनैः । पर्याकाशमनाकाशं सर्वतः शरसंकुलम् ॥ ८
शरजालावृतः सूर्यो न तदा स प्रकाशते । अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः ।। ९
ततो नालीकनाराचैस्तीक्ष्णायैश्च विकर्णिभिः । आजघान खरो रामं तोत्रैरिव महाद्विपम् ।। १०
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् । ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ।। ११
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् । परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ १२
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ १३
ततः सूर्यनिकाशेन रथेन महता खरः । आससाद रणे रामं पतङ्ग इव पावकम् ।। १४
ततोऽस्य सशरं चाप मुष्टिदेशे महात्मनः । खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ॥ १५
स पुनस्त्वपरान् सप्त शरानादाय वर्मणि । निजघान खरः क्रुद्धः शक्राशनिसमप्रभान् ।। १६
ततस्तत् प्रहनन् बाणैः खरमुक्तैः सुपर्वभिः । पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ १७
ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः ।। १८
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । रराज समरे रामो विधूमोऽग्निरिव ज्वलन् ।। १९
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः । चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ २०