पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः

त्रीन् मासानष्टमासांश्च राघवो न्यवसत्सुखम् । एवं संवसतस्तस्य मुनीनामाश्रमेषु वै ।।
रमतश्चानुकूल्येन ययुः संवत्सरा दश । परिवृत्य च धर्मज्ञो राघवः सह सीतया ॥
सुतीक्ष्णम्याश्रमे श्रीमान् पुनरेवाजगाम ह । स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः ।। २९
तत्रापि न्यवसद्रामः किंचित्कालमरिंदमः । अथाश्रमस्थो विनयात्कदाचित्त महामुनिम् ॥
उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् । अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः ।। ३१
वसतीति मया नित्यं कथाः कथयतां श्रुतम् । न तु जानामि तं देशं वनस्यास्य महत्तया ॥ ३२
कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः। प्रसादात्तत्रभवतः सानुजः सह सीतया ।।
अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् । मनोरथो महानेष हदि मे परिवर्तते ।। ३४
यदहं तं मुनिवरं शुश्रूपेयमपि स्वयम् । इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ।। ३५
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् । अहमध्येतदेव त्वां वक्तुकामः सलक्ष्मणम् ।।
अगस्त्यमभिगच्छेति सीतया सह राघव । दिप्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव अवीषि माम् ॥३७
अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः। योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः॥ ३८
दक्षिणेन महान्छीमानगस्त्यभ्रातुराश्रमः । थलीमाये वनोद्देशे पिप्पलीवनशोभिते ।।
बहुपुष्पफले रम्ये नानाशकुनिनादिते । पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः ।।
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः । तत्रैकां रजनी व्युष्य प्रभाते राम गम्यताम् ।। ४१
दक्षिणां दिशमास्थाय वनपण्डस्य पार्श्वनः । तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ॥ ४२
रमणीये वनोद्देशे बहुपादपसंवृते । संस्थते तत्र वैदेही लक्ष्मणश्च सह त्वया ॥
४३
स हि रम्यो वनोद्देशो बहुपादपसंकुलः' । यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ॥
अद्यैव गमने बुद्धिं रोचयस्व महायशः । इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च ।। ४५
प्रतस्थेऽगस्त्यमुहिश्य सानुजः सीतया सह । पश्यन् वनानि रम्याणि पर्वतांश्चाभ्रसंनिभान् ॥ ४६
सरांसि सरितश्चैव पथि मार्गवशानुगाः । सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ।।
इदं परमसंहष्टो वाक्यं लक्ष्मणमब्रवीत् । एतदेवाश्रमपदं नूनं तस्य महात्मनः ।।
अगस्त्यस्य मुनेतुर्दश्यते पुण्यकर्मणः । यथा हि मे वनस्यास्य झाताः पथि सहस्रशः ॥ ४९
संनताः फलभारेण पुष्पभारेण च द्रुमाः । पिप्पलीनां च पक्कानां वनादस्मादुपागतः ॥
गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः । तत्र तत्र च दृश्यन्ते संक्षिप्ताः काटसंचयाः ।। ५१
लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः । एतच वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ।।
पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते । विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः ।। ५३
पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः । तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ।।