पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१२ श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे एकादशः सर्गः अगस्त्याश्रमः

अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा । पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥
तौ पश्यमानौ विविधालप्रस्थान वनानि च । नदोश्च विविधा रम्या जम्मतुः सीतया सह ।। २
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः । सरांसि च सपनानि युक्तानि जलजैः वगैः॥ ३
यूथबद्धांश्च पृषतान मदोन्मत्तान् विषाणिनः । महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः ॥
ते गत्वा दूरमध्यानं लम्बमाने दिवाकरे । ददृशुः सहिता रम्यं तटाकं योजनायतम् ।।
पद्मपुष्करसंवाधं गजयूथैरलंकृतम् । सारसैहँसकादम्बैः संकुलं जलचारिभिः ।।
प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे । गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥
ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः । मुनि धर्मभृतं नाम प्रष्टुं समुपचक्रमे ।।
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने । कौतृहलं महज्जातं किमिदं साधु कथ्यताम् ।।
वक्तव्यं यदि चेद्विप नातिगुह्यमपि प्रभो। तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ।। १०
प्रभावं सरसः कृतनमाख्यातुमुपचक्रमे । इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् ।। ११
निर्मितं तपसा राम मुनिना माण्डकर्णिना । स हि तेपे तपरतीनं माण्डकर्णिमहामुनिः।। १२
दश वर्षसहस्राणि वायुभक्षो जलाश्रयः । ततः प्रन्यथिताः सर्वे देवाः सामिपुरोगमाः ॥ १३
अब्रुवन वचनं सर्वे परस्परसमागताः । अस्माकं कस्यचिरस्थानमेष प्रार्थयते मुनिः ।। १४
इति संविममनसः सर्वे ने त्रिदिवौकसः । तत्र कर्तुं तपोविघ्नं देवैः सर्वैर्नियोजिताः ॥
प्रधानाप्सरसः पश्च विद्युञ्चलितवर्चसः । अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः॥
नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये । ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः॥
तटाके निर्मितं तासामस्मिन्नन्तहितं गृहम् । तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् ।। १८
रमयन्ति तपोयोगान्मुनि यौवनमास्थितम् । तासां संकीडमानानामेप वादिनिःस्वनः ।। १९
श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः । आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः ॥
राघवः प्रतिजमाह सह भ्रात्रा महायशाः । एवं कथयमानस्य ददर्शाश्रममण्डलम् ॥ २१
कुशचीरपरिक्षिप्तं ब्राह्मथा लक्ष्म्या समावृतम् । प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः॥ २२
उवास मुनिभिः सर्वैः पूज्यमानो महायशाः । तथा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले ।। २३
उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः । जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ।।
तेषामुषितवान् पूर्व सकाशे स महास्ववित् । कचित्परिदशान मासानेकं संवत्सरं कचिम् ॥ २५
कचिञ्च चतुरो मासान् पञ्च पट् चापरान् क्वचित् । अपरत्राधिकं मासादयधमधिकं कचित् ॥ २६