पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१४ श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति । निगृह्य तरसा मृत्यु लोकानां हितकाम्यया ॥
यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा । इहेकदा किल क्रूरो वातापिरपि चेल्वलः ।।
भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ । धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ।
आमन्त्रयति विप्रान् म श्राद्धमुद्दिश्य निघृणः । भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् ॥ ५८
तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा । ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् ॥ ५९
वातापे निष्कमरवेति स्वरेण महता वदन् । ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् ।
भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत् । ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः ॥ ६१
विनाशितानि संहत्य नित्यशः पिशिताशनैः । अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ॥ ६२
अनुभूय किल श्राद्धे भक्षितः स महासुरः । ततः संपन्नमित्युक्वा दत्त्वा हस्तोदकं ततः ॥
भ्रातरं निष्क्रमस्वेति चेल्वलः सोऽभ्यभापत । स तं तथा भापमाणं भ्रातरं विप्रघातिनम् ॥ ६४
अब्रवीत्महसन धीमानगस्त्यो मुनिसत्तमः । कुतो निष्कमितुं शक्तिर्मया जीर्णस्य रक्षसः ॥
भ्रातुरते मेपरूपस्य गतस्य यमसादनम् । अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम् ।।
प्रधर्षयितुमारेभे मुनि क्रोधानिशाचरः । सोऽभिद्रवन्मुनिश्रेष्ठ मुनिना दीप्ततेजसा ।
चक्षुषानलकल्पेन निर्दग्धो निधनं गतः । तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ।।
विप्रानुकम्पया येन कर्मदं दुष्करं कृतम् । एवं कथयमानस्य तस्य सौमित्रिणा सह ।।
रामस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत । उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि ॥७०
प्रविवेशाश्रमपदं तमृर्षि सोऽभ्यवादयत् । सम्यकप्रतिगृहीतश्च मुनिना तेन राघवः ॥
न्यवसत्तां निशामेकां प्राश्य मूलफलानि च । तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले ॥ ७२
भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः । अभिवादये लां भगवन् मुखमध्युषितो निशाम ।।
आमन्त्रये त्वां गच्छामि गुनं ते द्रष्टुमग्रजम् । गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ।।
यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन । नीवारान् पनसांस्तालांस्तिनिशान् वजुलान् धवान् ॥७५
चिरिबिल्वान् मधूकांश्च विल्वानपि च तिन्दुकान् । पुष्पितान पुष्पिताप्राभिलताभिरनुवेष्टितान् ।।७६
ददर्श रामः शतशस्तत्र कान्तारपादपान् । हस्तिहस्तैर्विदितान् वानरैरुपशोभितान् ।।
मत्तैः शकुनिसबैश्च शतशः प्रतिनादितान् । ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ।।
पृष्टतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् । स्निग्धपत्रा यथा वृक्षा यथा शान्तमृगद्विजाः॥
आश्रमो नातिदूरस्थो महावितात्मनः । अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ।।
आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः । श्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ।।
प्रशान्तमृगयूथश्च नानाशकुनिनादितः । निगृह्य तरसा मृत्यु लोकानां हितकाम्यया ।।